Book Title: Uttaradhyayansutram Part 02
Author(s): Vadivetal, Shantisuri, 
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 8
________________ उत्तराध्य. बृहद्वृत्तिः ॥२३२॥ व्याख्या - संयमयोगाः - संयमव्यापारास्तैस्तेषु वा विषण्णाः संयमयोगविषण्णा अतिदुश्वरं तपश्चरणमाचरितुमक्षमाः व्रतं च मोक्तुमशक्नुवन्तः कथञ्चिदस्माकमितो मुक्तिरस्त्विति विचिन्तयन्तो म्रियन्ते यत्तद्वलतां - संयमान्निव| र्त्तमानानां मरणं वलन्मरणं, तुर्विशेषणे, भग्नत्रतपरिणतीनां प्रतिनामेवैतदिति विशेषयति, अन्येषां हि संयमयोगानामेवासम्भवात् कथं तद्विषादः ? तदभावे च तदिति । पश्चार्द्धेन वशार्त्तमाह- इन्द्रियाणां - चक्षुरादीनां विषयाःमनोज्ञरूपादय इन्द्रियविषयास्तद्वशं गताः - प्राप्ता इन्द्रियविषयवशगताः स्निग्धदीपकलिकाऽवलोकनाकुलितपतङ्गवत् म्रियन्ते यत्तद्वशार्त्तमरणं, कथञ्चिद्रव्यपर्याययोरभेदादेवमुच्यते, एवं पूर्वत्रापि भावनीयं, तुशब्द एषामप्यध्यवसानभे| दतो वैचित्र्यख्यापनार्थ इति गाथार्थः ॥ २१७ ॥ अन्तःशल्यमरणमाह | लज्जाइ गारवेण य बहुस्सुयमएण वाऽवि दुश्चरिअं । जे न कहंति गुरूणं न हु ते आराहगा हुंति ॥२१८॥ गारवपंकनिबुड्डा अड्यारं जे परस्स न कहंति । दंसणनाणचरिते ससल्लमरणं हवइ तेसिं ॥ २९९ ॥ व्याख्या–तत्र ‘लज्जया' अनुचितानुष्ठानसंवरणाऽऽत्मिकया 'गौरवेण च' सातर्द्धिरसगौरवात्मकेन, मा भून्ममा| लोचनार्ह माचार्यमुपसर्पतस्तद्वन्दनादिना तदुक्ततपोऽनुष्ठानासेवनेन च ऋद्धिरससाताभावसम्भवः इति, 'बहुश्रुतमदेन वा' बहुश्रुतोऽहं तत्कथमल्पश्रुतोऽयं मम शल्यमुद्धरिष्यति ? कथं चाहमस्मै वन्दनादिकं दास्यामि ? अपभ्रा - Jain Education International For Personal & Private Use Only अकाम मरणाध्य. ॥२५॥ www.jainelibrary.org

Loading...

Page Navigation
1 ... 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 ... 568