________________
उत्तराध्य.
बृहद्वृत्तिः
॥२३२॥
व्याख्या - संयमयोगाः - संयमव्यापारास्तैस्तेषु वा विषण्णाः संयमयोगविषण्णा अतिदुश्वरं तपश्चरणमाचरितुमक्षमाः व्रतं च मोक्तुमशक्नुवन्तः कथञ्चिदस्माकमितो मुक्तिरस्त्विति विचिन्तयन्तो म्रियन्ते यत्तद्वलतां - संयमान्निव| र्त्तमानानां मरणं वलन्मरणं, तुर्विशेषणे, भग्नत्रतपरिणतीनां प्रतिनामेवैतदिति विशेषयति, अन्येषां हि संयमयोगानामेवासम्भवात् कथं तद्विषादः ? तदभावे च तदिति । पश्चार्द्धेन वशार्त्तमाह- इन्द्रियाणां - चक्षुरादीनां विषयाःमनोज्ञरूपादय इन्द्रियविषयास्तद्वशं गताः - प्राप्ता इन्द्रियविषयवशगताः स्निग्धदीपकलिकाऽवलोकनाकुलितपतङ्गवत् म्रियन्ते यत्तद्वशार्त्तमरणं, कथञ्चिद्रव्यपर्याययोरभेदादेवमुच्यते, एवं पूर्वत्रापि भावनीयं, तुशब्द एषामप्यध्यवसानभे| दतो वैचित्र्यख्यापनार्थ इति गाथार्थः ॥ २१७ ॥ अन्तःशल्यमरणमाह
| लज्जाइ गारवेण य बहुस्सुयमएण वाऽवि दुश्चरिअं । जे न कहंति गुरूणं न हु ते आराहगा हुंति ॥२१८॥ गारवपंकनिबुड्डा अड्यारं जे परस्स न कहंति । दंसणनाणचरिते ससल्लमरणं हवइ तेसिं ॥ २९९ ॥
व्याख्या–तत्र ‘लज्जया' अनुचितानुष्ठानसंवरणाऽऽत्मिकया 'गौरवेण च' सातर्द्धिरसगौरवात्मकेन, मा भून्ममा| लोचनार्ह माचार्यमुपसर्पतस्तद्वन्दनादिना तदुक्ततपोऽनुष्ठानासेवनेन च ऋद्धिरससाताभावसम्भवः इति, 'बहुश्रुतमदेन वा' बहुश्रुतोऽहं तत्कथमल्पश्रुतोऽयं मम शल्यमुद्धरिष्यति ? कथं चाहमस्मै वन्दनादिकं दास्यामि ? अपभ्रा -
Jain Education International
For Personal & Private Use Only
अकाम
मरणाध्य.
॥२५॥
www.jainelibrary.org