Book Title: Uttaradhyayani Part_2 Author(s): Bhadrabahuswami, Shantisuri, Publisher: Devchand Lalbhai Pustakoddhar Fund View full book textPage 5
________________ HOROSCORMELORERARYANA Ki ओहे'त्ति ओघमरणं-सामान्यतः सर्वप्राणिनां प्राणपरित्यागात्मकं भवति, भवमरणं-यन्नारकादेनरकादिभवविषयतया विवक्षितं, 'तब्भविय'त्ति तद्भविकमरणं यस्मिन्नेव मनुष्यभवादौ मृतः पुनस्तस्मिन्नेवोत्पद्य यन्मियते इति व्याख्यानिकाभिप्रायो, वृद्धास्तु व्याचक्षते-'तं भावमरणं दुविहं-ओघमरणं तब्भवमरणं च, तथा तद्भवमरणखरूपं च 'जो जम्मि भवग्गहणे मरई'। तत्र च 'ओहे तब्भवमरणे' इति पाठो लक्ष्यते । इह चैषां येनाधिकारस्तमाह-'मणुस्सभविएणं'ति मनुष्यभवभाविना भवमरणान्तर्वर्तिना मनुष्यभविकमरणेनाधिकारः-प्रकृतम्, इति गाथार्थः ॥२०९॥ सम्प्रति विस्तरतो मरणवक्तव्यताविषयं द्वारगाथाद्वयमाहमरणविभत्तिपरूवण अणुभावो चेव तह पएसग्गं। कइ मरइ एगसमयं ? कइखुत्तो वावि इक्किके ? ॥२१०॥ मरणंमि इक्कमिके कइभागो मरइ सबजीवाणं? । अणुसमय संतरं वा इकिकं किच्चिरं कालं ?॥ २११ ॥ व्याख्या-तत्र मरणस्य विभक्तिः-विभागस्तस्य प्ररूपणा-प्रदर्शना मरणविभक्तिप्ररूपणा, कार्येति शेषः, अनुभागश्च-रसः, स च तद्विषयस्यायुःकर्मणः, तत्रैव तत्संम्भवात् , मरणे हि तदभावात्मनि कथं तत्सम्भव इति भावनीयम् , एवेति पूरणे, तथा प्रदेशानां-तद्विषयायुःकर्मपुद्गलात्मकानाम् अग्रं-परिमाणं प्रदेशाग्रं, वाच्यमिति गम्यते, Jain Educational mational For Privale & Personal use only iniwarainelibrary.orgPage Navigation
1 ... 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 ... 570