Book Title: Uttaradhyayani Part_2 Author(s): Bhadrabahuswami, Shantisuri, Publisher: Devchand Lalbhai Pustakoddhar Fund View full book textPage 4
________________ उत्तराध्य.|॥१॥षविघं मरणमिति यदुक्तं, तत्र नामस्थापने प्रतीते एवेत्यनादृत्य शेषचतुष्टयमाह । अन्ये त्वत्र नामादि- अकार बृहद्धत्तिः षविधनिक्षेपोद्देशाभिधायिनीमपि गाथामधीयते, तत्र नामस्थापने प्राग्वत् , द्रव्यादिचतुष्टयाभिव्यञ्जनार्थमाह- मरणा ॥२२॥दवमरणं कुसुंभाइएसु भावि आउक्खओ मुणेयवो । ओहे भवतब्भविए मणुस्सभविएण अहिगारो ॥ - व्याख्या-द्रव्यस्य मरणं द्रव्यमरणं, कुसुम्भादिकेषु, आदिशब्दादन्नादिपरिग्रहः, यद्यस्य खकार्यसाधनं प्रति समर्थ । रूपं तत्तस्य जीवितमिति रूढं, तदभावस्तु मरणं, ततश्च कुसुम्भादे रजनादि खकार्यसामर्थ्य जीवितं, तदभावस्तु मरणं, तथा च लोके मृतं कुसुम्भकमरञ्जकं, मृतमन्नमव्यञ्जनमित्याधुपदिश्यते, क्षेत्रमरणं तु यस्मिन् क्षेत्रे मरणम्-इङ्गिनीमरणादि वर्ण्यते क्रियते वा, यदा वा तस्य शस्याद्युत्पत्तिक्षमत्वमुपहन्यते तदा तत् क्षेत्रमरणं, कालमरणं यस्मिन् काले मरणमुपवर्ण्यते क्रियते वा, कालस्य वा ग्रहोपरागादिना वृष्ट्यादिखकार्याकरणम् , एते च सुगमत्वात्तत्त्वतो द्रव्यमरणाभिन्नत्वाच्च नियुक्तिकृता पृथग नोक्ते, यत्तु निक्षेपगाथायां षडूविध इतिवचनात् अनयो देनाभिधानं तद्विवक्षितवस्तुवैशिष्ट्यदर्शकं, न हि ताभ्यां विना नियतदेशत्वादिकं वस्तुनो वैशिष्टयमाख्यातुं शक्यमिति, 'भावे' भावविषये। ॥२२१ निक्षेपे आयुषो-जीवितस्य क्षयो-ध्वंसः आयुःक्षयो "मुणितव्यो' ज्ञातव्यो, मरणमित्युपस्कारः, तदपि च त्रिविधम् १ नामंठवणादविए खित्ते काले तहेव भावे य । मरणस्स उ णिक्खेवो नायव्वो छव्विहो एसो ॥ १॥ Jain Education International For Privale & Personal use only www.jainelibrary.orgPage Navigation
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 ... 570