Book Title: Uttaradhyayanani Part 01 And 02 Author(s): Bhavvijay Gani, Harshvijay Publisher: Vinay Bhakti Sundar Charan Granthmala View full book textPage 7
________________ उचराध्ययनसूत्रम् प्रशान्तपीयूषपायोधि परमगुरुआचार्यश्रीमद्विजयभद्रसूरीश्वरेभ्यो नमो नमः महोपाध्याय श्रीमद्भावविजयगणिविरचितविवृत्त्या सहितं अध्य०१ ।॥१॥ COCA CASTR श्रीमदुत्तराध्ययनसूत्रम् । O ******* ॐ नमः सिद्धिसाम्राज्य-सौख्यसन्तानदायिने । त्रैलोक्यपूजिताय श्री-पार्श्वनाथाय तायिने ॥१॥ श्रीवर्द्धमानजिनराजमनन्तकीर्ति, वाग्वादिनी च सुधियां जननीं प्रणम्य । श्रीउत्तराध्ययनसंज्ञकवाङ्मयस्य, व्याख्यां लिखामि सुगमा सकथां च काञ्चित् ॥२॥ नियुक्त्यर्थः-पाठा-न्तराणि चार्थान्तराणि च प्रायः। श्रीशान्तिसूरिविरचित-वृत्ते यानि तत्त्वज्ञैः ॥३॥ पूर्वविहिता यद्यपि, बह्वयः सन्त्यस्य वृत्तयो रुचिराः। पद्यनिबद्धकथार्थ, तदपि क्रियते प्रयत्नोऽयम् ॥ ४॥॥ इहोत्तराध्ययनानीति कः शब्दार्थः ? उच्यते, उत्तराणि श्रीदशवैकालिकनिष्पत्तेः प्राक् श्रीआचाराङ्गपठनोत्तरकालं पठ्यमानत्वेन, है दशवैकालिकनिष्पत्तरनु च तत एवो मधीयमानत्वेन, उत्तराणि वा प्रधानान्यध्ययनानि उत्तराध्ययनानि, तानि च षट्त्रिंशत्, तत्र | श्रीजिनेन्द्रप्रणीतधर्मकल्पवृक्षस्य विनय एव मूलमित्यादौ शासनाधिकारी श्रीसुधर्मस्वामि विनयाध्ययनमाह । तस्य चेदमादि सूत्रम्Page Navigation
1 ... 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 ... 582