________________
उचराध्ययनसूत्रम्
प्रशान्तपीयूषपायोधि परमगुरुआचार्यश्रीमद्विजयभद्रसूरीश्वरेभ्यो नमो नमः
महोपाध्याय श्रीमद्भावविजयगणिविरचितविवृत्त्या सहितं
अध्य०१
।॥१॥
COCA CASTR
श्रीमदुत्तराध्ययनसूत्रम् ।
O *******
ॐ नमः सिद्धिसाम्राज्य-सौख्यसन्तानदायिने । त्रैलोक्यपूजिताय श्री-पार्श्वनाथाय तायिने ॥१॥
श्रीवर्द्धमानजिनराजमनन्तकीर्ति, वाग्वादिनी च सुधियां जननीं प्रणम्य ।
श्रीउत्तराध्ययनसंज्ञकवाङ्मयस्य, व्याख्यां लिखामि सुगमा सकथां च काञ्चित् ॥२॥ नियुक्त्यर्थः-पाठा-न्तराणि चार्थान्तराणि च प्रायः। श्रीशान्तिसूरिविरचित-वृत्ते यानि तत्त्वज्ञैः ॥३॥ पूर्वविहिता यद्यपि, बह्वयः सन्त्यस्य वृत्तयो रुचिराः। पद्यनिबद्धकथार्थ, तदपि क्रियते प्रयत्नोऽयम् ॥ ४॥॥
इहोत्तराध्ययनानीति कः शब्दार्थः ? उच्यते, उत्तराणि श्रीदशवैकालिकनिष्पत्तेः प्राक् श्रीआचाराङ्गपठनोत्तरकालं पठ्यमानत्वेन, है दशवैकालिकनिष्पत्तरनु च तत एवो मधीयमानत्वेन, उत्तराणि वा प्रधानान्यध्ययनानि उत्तराध्ययनानि, तानि च षट्त्रिंशत्, तत्र | श्रीजिनेन्द्रप्रणीतधर्मकल्पवृक्षस्य विनय एव मूलमित्यादौ शासनाधिकारी श्रीसुधर्मस्वामि विनयाध्ययनमाह । तस्य चेदमादि सूत्रम्