Book Title: Uttaradhyayanani
Author(s): Nemichandracharya
Publisher: Pushpachandra Kshemchandra Balapurwala

View full book text
Previous | Next

Page 7
________________ लघुचे प्रस्तावना। श्रीउत्तरा-1 भाण्डागारसत्का चत्वारिंशदधिकद्विशतपत्रमाना जीर्णपर्णा शुद्धा लिपिसुन्दरा, एतत्प्रान्ते प्रशस्तिसत्क एक एवान्तिमध्ययन | श्लोको दृश्यते च, प्रेसकोपी चैतदुपरित एव कारिताऽभूदिति । किश्चैतद्ग्रन्थमुद्रणकारणमस्मगुरुवर्याणां प्रेरणैव ।। सूत्रस पुनश्च प्रतीनां षट्कमकब्बरशाहिप्रतिबोधविधायिजगद्विख्यातजगद्गुरुश्रीमद्विजयहीरसूरिजन्मभूम्युत्तरगुर्जरप्रदेशा न्तःस्थप्रह्लादनपुरेत्याख्यनगरमध्य'दायरा' इतिनामस्थानसंस्थसंवेगिगच्छोपाश्रयज्ञानागारसत्कम् । ॥३॥ तासु प्रथमा-नवनवत्युत्तरत्रिशत( ३९९)पत्रमयी प्राचीना शुद्धप्राया, प्रान्तविभागे-"संवत् १५४५ वर्षे कार्तिकसुदि ३ दिने श्रीधर्मघोषगच्छे मूलपट्टे श्रीधर्मसूरिसन्ताने श्रीपद्मशेखरसूरिपट्टालङ्करणगच्छाधिराजश्रीपद्मानन्दसूरिशिष्यवाचकश्रीभावशेखरवाचनार्थं लिखितमिदं मुनिना क्षमारत्नेन श्रुतज्ञानवृद्धये ॥ शुभं भवतु श्रीपार्श्वप्रसादात् ॥” इतिकृतोल्लेखश्च वर्त्तते । द्वितीया-चतुर्दशोत्तरशतत्रय(३१४)पत्रात्मिका नातिप्राचीना नातिशुद्धा मूलपाठविरहिता अन्तिमपत्रात्पूर्वपत्रन्यूना, सा च प्रान्तवर्त्तिना “अथ संवत् श्रीनृपविक्रमकालातीतसंवत् १६१८ वर्षे माघमासे शुक्लपक्षे ५ शुक्रे अदेहउसमापुरे |श्रीउत्तराध्ययनटीकायां दो० लहुयीआदिसमस्तसङ्घन लिखापिते गुणिश्रीलडूकृते शास्त्रमिदं सुधासमं श्रीउत्तराध्ययनवृत्तिरियम् ॥ यादृशं पुस्तके दृष्ट, तादृशं लिखितं मया। यदि शुद्धमशुद्धं वा, मम दोषो न दीयते ॥१॥ लेखकपाठकयोर्माङ्गल्यं ददातु ॥ तैलाद्रक्षेजलाद्रक्षेद् रक्षेच्छिथिलबन्धनात् । परहस्तगताद्रक्षेदेवं वदति पुस्तकम् ॥२॥ इत्युल्लेखेन सङ्गताऽस्ति । __तृतीया पुनः-षइविंशत्युत्तरत्रिशत(३२६)पत्रप्रमाणा सूक्ष्माक्षरा अनतिजीर्णा प्रायः शुद्धा विंशतितमपत्रविकला च, अन्ते च “यादृशं पुस्तके दृष्टं, तादृशं लिखितं मया । यदि शुद्धमशुद्धं वा, मम दोषो न दीयते ॥ १॥ संवत् X|१५६३ वर्षे लिखितम् ॥” इत्युल्लेखवती। .

Loading...

Page Navigation
1 ... 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 ... 798