________________
लघुचे प्रस्तावना।
श्रीउत्तरा-1 भाण्डागारसत्का चत्वारिंशदधिकद्विशतपत्रमाना जीर्णपर्णा शुद्धा लिपिसुन्दरा, एतत्प्रान्ते प्रशस्तिसत्क एक एवान्तिमध्ययन
| श्लोको दृश्यते च, प्रेसकोपी चैतदुपरित एव कारिताऽभूदिति । किश्चैतद्ग्रन्थमुद्रणकारणमस्मगुरुवर्याणां प्रेरणैव ।। सूत्रस
पुनश्च प्रतीनां षट्कमकब्बरशाहिप्रतिबोधविधायिजगद्विख्यातजगद्गुरुश्रीमद्विजयहीरसूरिजन्मभूम्युत्तरगुर्जरप्रदेशा
न्तःस्थप्रह्लादनपुरेत्याख्यनगरमध्य'दायरा' इतिनामस्थानसंस्थसंवेगिगच्छोपाश्रयज्ञानागारसत्कम् । ॥३॥
तासु प्रथमा-नवनवत्युत्तरत्रिशत( ३९९)पत्रमयी प्राचीना शुद्धप्राया, प्रान्तविभागे-"संवत् १५४५ वर्षे कार्तिकसुदि ३ दिने श्रीधर्मघोषगच्छे मूलपट्टे श्रीधर्मसूरिसन्ताने श्रीपद्मशेखरसूरिपट्टालङ्करणगच्छाधिराजश्रीपद्मानन्दसूरिशिष्यवाचकश्रीभावशेखरवाचनार्थं लिखितमिदं मुनिना क्षमारत्नेन श्रुतज्ञानवृद्धये ॥ शुभं भवतु श्रीपार्श्वप्रसादात् ॥” इतिकृतोल्लेखश्च वर्त्तते ।
द्वितीया-चतुर्दशोत्तरशतत्रय(३१४)पत्रात्मिका नातिप्राचीना नातिशुद्धा मूलपाठविरहिता अन्तिमपत्रात्पूर्वपत्रन्यूना, सा च प्रान्तवर्त्तिना “अथ संवत् श्रीनृपविक्रमकालातीतसंवत् १६१८ वर्षे माघमासे शुक्लपक्षे ५ शुक्रे अदेहउसमापुरे |श्रीउत्तराध्ययनटीकायां दो० लहुयीआदिसमस्तसङ्घन लिखापिते गुणिश्रीलडूकृते शास्त्रमिदं सुधासमं श्रीउत्तराध्ययनवृत्तिरियम् ॥ यादृशं पुस्तके दृष्ट, तादृशं लिखितं मया। यदि शुद्धमशुद्धं वा, मम दोषो न दीयते ॥१॥ लेखकपाठकयोर्माङ्गल्यं ददातु ॥ तैलाद्रक्षेजलाद्रक्षेद् रक्षेच्छिथिलबन्धनात् । परहस्तगताद्रक्षेदेवं वदति पुस्तकम् ॥२॥ इत्युल्लेखेन सङ्गताऽस्ति । __तृतीया पुनः-षइविंशत्युत्तरत्रिशत(३२६)पत्रप्रमाणा सूक्ष्माक्षरा अनतिजीर्णा प्रायः शुद्धा विंशतितमपत्रविकला
च, अन्ते च “यादृशं पुस्तके दृष्टं, तादृशं लिखितं मया । यदि शुद्धमशुद्धं वा, मम दोषो न दीयते ॥ १॥ संवत् X|१५६३ वर्षे लिखितम् ॥” इत्युल्लेखवती। .