Book Title: Uttaradhyayanani Author(s): Nemichandracharya Publisher: Pushpachandra Kshemchandra Balapurwala View full book textPage 8
________________ चतुर्थी च-पडूविंशत्यधिकचतुःशत(४२६)पत्रयुक्ता स्थूललिपिका अनतिप्राचीना शुद्धाशुद्धा च, अवसाने "संवत् १६६१ वर्षे फाल्गुणमासे कृष्णपक्षे ५ दिने भोमवारे पं० हरजी लिखितं शुभं भूयात् ॥ यादृशं पुस्तके दृष्टं, तादृशं लिखितं मया। यदि शुद्धमशुद्धं वा, मम दोषो न दीयते ॥ १॥" इति लेखकपुष्पिका चास्ति । __ पञ्चमी-त्रिचत्वारिंशाधिकत्रिशत(३४३)पत्ररूपा न प्रायो जीर्णा न च प्रायोऽशुद्धा आद्यपत्रद्वयविरहिता च, प्रान्ते लेखकपुष्पिकाविहीना च । ___षष्ठी पुनः-एकसप्तत्युत्तरत्रिशत(३७१)पत्राश्चिता नूतना न प्रायः शुद्धा लिपितोऽशोभना त्रिपाठी चेयम् । पृष्ठे "संवत् १६६२ वर्षे कार्तिकमासे शुदि ३ दिने सोमे लिखितम् ॥ श्रीआदिनाथप्रसादात् शुभं भवतु । लेखकपाठकयोः शुभं भवतु ॥ श्री ॥” इति पुष्पिका लेखकस्य । तदनु प्रतीनां त्रयी गुर्जरप्रान्तान्तर्गतडभोडाइत्याख्यनगरसंस्थापितश्रीमद्विजयानन्दसूरीन्द्रसन्तानीयश्रीमन्मानविजयमुनिचित्कोषसत्का। ____ तत्रैका-एकोनाशीत्यधिकशतद्वय(२७९)पत्रवती दिव्याक्षरा परमशुद्धा, अन्ते च "संवत् १६१२ वर्षे भाद्रपदवदि १२ रविवारे श्रीसागरसूरिसन्ताने श्रीसमयभक्तमहोपाध्यायशिष्यश्रीपुण्यनन्दिउपाध्यायशिष्यश्रीरत्तरङ्गोपाध्यायतच्छिष्यवाचकाऽमरगिरिगणिना स्ववाचनार्थ लिपीकृता । लिखिता श्रीफलवर्द्धिकानगरे । वाच्यमाना चिरं नन्द्यात् ॥ शुभं भवतु कल्याणमस्तु लेखकपाठकयोः । यादृशं पुस्तके दृष्टं, तादृशं लिखितं मया । यदि शुद्धमशुद्धं वा, मम दोषो न दीयते ॥ १॥” इति लेखकपुष्पिका। - द्वितीया-पञ्चोत्तरशतद्वय(२०५)पत्रयुता प्राचीनपर्णा शुद्धा, प्रान्तभागे लेखकस्य पुष्पिका चेयम्-"संवत् १५५२Page Navigation
1 ... 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 ... 798