Book Title: Uttaradhyayanam Sutram Part 03
Author(s): Chandraguptasuri
Publisher: Anekant Prakashan Jain Religious Trust

View full book text
Previous | Next

Page 5
________________ उत्तराध्ययन ॥ ३ ॥ ३ १२ मूलम् — तस्स पाए उ वंदित्ता, काऊण य पयाहिणं । नाइदूरमणासन्ने, पंजली पडिपुच्छइ ॥ ७ ॥ व्याख्या— अत्र पादवन्दनानन्तरं प्रदक्षिणाभिधानं पूज्यानामालोक एव प्रणामः कार्यः इति ख्यापनार्थे, 'नाइदूरमणासन्नेति' नातिदूरं न चासन्ने प्रदेशे स्थित इति शेषः ॥ ७ ॥ मूलम् - तरुणोऽसि अज्जो पवइओ, भोगकालंमि संजया । उवडिओऽसि सामण्णे, एअमट्ठ सुणामिता ८ व्याख्या – तरुणोऽसि आर्य ! अत एव भोगकाले प्रत्रजितं इत्युच्यसे, उपस्थितश्च सर्वादरेण कृतोद्यमश्चासि श्रामये, एतमर्थ निमित्तं येनार्थेन त्वमस्यामप्यवस्थायां प्रत्रजितः शृणोमि 'ताइति' तावत् पूर्वं पश्चात्तु यत्त्वं भणिष्यसि तदपि श्रष्यामीति भावः । इति सूत्रसप्तकावयवार्थः, शेषं तु सुगमत्वात् न व्याख्यातमेवमग्रेऽपि ज्ञेयम् ॥ ८ ॥ इत्थं राज्ञो मुनिराह - मूलम् – अणाहोमि महाराय !, नाहो मज्झ न विज्जइ । अणुकंपगं सुहिं वावि, कंची नाभिसमेमहं ॥९॥ व्याख्या - अनाथोऽस्म्यहं महाराज ! किमिति ? यतो नाथो योगक्षेमकारी मम न विद्यते । तथा अनुकम्पकं अनुकंपाकरं 'सुहिंति' सुहृदं वा कंचिन्नाभिसमेमि नाभिसङ्गच्छामि न प्राप्नोमि, अहं इत्यनेनार्थेन तारुण्येऽपि प्रत्र - जित इति भावः ॥ ९ ॥ एवं मुनिनोक्ते विंशतितममध्ययनम्. गा ७-९ _UTR-3

Loading...

Page Navigation
1 ... 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 ... 428