________________
उत्तराध्ययन ॥ ३ ॥
३
१२
मूलम् — तस्स पाए उ वंदित्ता, काऊण य पयाहिणं । नाइदूरमणासन्ने, पंजली पडिपुच्छइ ॥ ७ ॥ व्याख्या— अत्र पादवन्दनानन्तरं प्रदक्षिणाभिधानं पूज्यानामालोक एव प्रणामः कार्यः इति ख्यापनार्थे, 'नाइदूरमणासन्नेति' नातिदूरं न चासन्ने प्रदेशे स्थित इति शेषः ॥ ७ ॥
मूलम् - तरुणोऽसि अज्जो पवइओ, भोगकालंमि संजया । उवडिओऽसि सामण्णे, एअमट्ठ सुणामिता ८
व्याख्या – तरुणोऽसि आर्य ! अत एव भोगकाले प्रत्रजितं इत्युच्यसे, उपस्थितश्च सर्वादरेण कृतोद्यमश्चासि श्रामये, एतमर्थ निमित्तं येनार्थेन त्वमस्यामप्यवस्थायां प्रत्रजितः शृणोमि 'ताइति' तावत् पूर्वं पश्चात्तु यत्त्वं भणिष्यसि तदपि श्रष्यामीति भावः । इति सूत्रसप्तकावयवार्थः, शेषं तु सुगमत्वात् न व्याख्यातमेवमग्रेऽपि ज्ञेयम् ॥ ८ ॥ इत्थं राज्ञो मुनिराह -
मूलम् – अणाहोमि महाराय !, नाहो मज्झ न विज्जइ । अणुकंपगं सुहिं वावि, कंची नाभिसमेमहं ॥९॥
व्याख्या - अनाथोऽस्म्यहं महाराज ! किमिति ? यतो नाथो योगक्षेमकारी मम न विद्यते । तथा अनुकम्पकं अनुकंपाकरं 'सुहिंति' सुहृदं वा कंचिन्नाभिसमेमि नाभिसङ्गच्छामि न प्राप्नोमि, अहं इत्यनेनार्थेन तारुण्येऽपि प्रत्र - जित इति भावः ॥ ९ ॥ एवं मुनिनोक्ते
विंशतितममध्ययनम्.
गा ७-९
_UTR-3