________________
उत्तराध्ययन
विंशतितममध्ययनम्.
(२०) गा१०-१३
मूलम्--तओ सो पहसिओराया,सेणिओमगहाहिवो। एवं ते इड्डिमंतस्स,कहं नाहो न विजह? ॥१०॥
व्याख्या-एवं दृश्यमानप्रकारेण ऋद्धिमतो विस्मापकवर्णादिसम्पत्तिमतः कथं नाथो न विद्यते ? वर्तमाननिर्देशः सर्वत्र तत्कालापेक्षया ज्ञेयः ॥ १०॥ यदि चानाथतैव बताङ्गीकारहेतुस्तर्हिमूलम्--होमि नाहो भयंताणं, भोगे भुंजाहि संजया!। मित्तनाइपरिवुडो, माणुस्सं खु सुदुल्लहं ॥११॥ ___ व्याख्या-भवामि नाथो भदंतानां, मयि च नाथे सति मित्राणि ज्ञातयो भोगाश्च सुलभा एवेत्याशयेनाहभोगे इत्यादीति ॥ ११ ॥ मुनिराह--
मूलम्-अप्पणावि अणाहोऽसि, सेणिआ! मगहाहिवा!।
अप्पणा अणाहो संतो, कहं मे नाहो भविस्ससि ? ॥ १२ ॥ व्याख्या--[ सुगमैव ] ॥ १२ ॥ एवं मुनिनोक्तेमूलम्-एवं वुत्तो नरिंदो सो, सुसंभंतो सुविम्हिओ। वयणं अस्सुअपुवं, साहुणा विम्हयन्निओ ॥१३॥ ___ व्याख्या-इहैवमक्षरघटना, स नरेन्द्रः श्रेणिको 'विम्हयन्निओत्ति' पूर्वमपि रूपादिविषयविस्मयान्वितः सन् , एवमुक्तनीत्या वचनमश्रुतपूर्व साधुना उक्तः सुसम्भ्रान्तः सुविस्मितश्च भूत्वा प्रोवाचेति शेषः ॥ १३॥
UTR-3