Book Title: Updesh Saptatika
Author(s): 
Publisher: Jain Dharm Prasarak Sabha

View full book text
Previous | Next

Page 112
________________ १०.५ ॥ श्रीपुंडरीकगणधरस्तवः॥ श्रीशत्रुञ्जयशैलराजशिखरालंकारचूडामणिम् । भव्यश्रेणिसमीहितार्थनिकरत्यागैकचिन्तामणिम् ॥ . नम्राखण्डलमौलिरत्नकिरणैराजितांहिद्वयम् । संस्तोष्ये प्रथमं गणाधिपमहं श्रीपुण्डरीकाहयम् ।। १ ।। ज्ञानानन्त्यमयी किमुत्सवमयी कि सख्यसंपन्मयी ? । किंवा सांद्रसुधामयी शुभमयी सौभाग्यलक्ष्मीमयी ? ।। इत्थंकारमुदारमूर्तिममलामालोक्य चेतस्विनश्वेतः स्वं परितन्वते स जयतात् श्रीपुण्डरीको गुरुः ।।२।। स श्रीमान् गुरुपुंगवः स्थवयताद्वः शाश्वतीः सम्पदो । यत्पादाम्बुरुहे सुपर्वमणिभिर्भेजे ह्युपादानता ॥ नेत्थं चेत् कथमन्यथा त्रिभुवनाऽभीष्टार्थसार्थानिदम् । । दत्ते ते च न दृक्पथे कथममी जग्मुर्जगत्प्राणिनाम् ॥३॥ ग्रावव्रातमयोऽपि दुस्तरभवाम्भोधौ निमज्जजन-. श्रेणीतारणकारणं समभवत् शत्रुजयाख्यो गिरिः ।। तत् सर्व तव पादपद्मयुगलीमाहात्म्यविस्फूर्जितम् । श्रीमन्नादिजिनेशवंशजलधिप्रोल्लासशीतयुते ! ॥ ४ ॥ केषां न स्पृहयालुता दिविषदां नेत्राय संजायते । येन प्रोज्ज्वलयन्मुखाम्बुजलसत्सौभाग्यमालोक्यते ।।

Loading...

Page Navigation
1 ... 110 111 112 113 114 115 116 117 118