Book Title: Updesh Saptatika
Author(s):
Publisher: Jain Dharm Prasarak Sabha
View full book text
________________
१०८
मेषोन्मेषविवर्जितैरविरतं भव्याङ्गभाजां भरैः। श्रेयःश्रेणिरमां स मांसलयतात् श्रीपुण्डरीकप्रभुः ॥५॥ जात्यस्वर्णसवर्णवर्णवपुषा कैवल्यमासेदुषा । संप्राप्य त्रिपदीमदीनमहसा श्रीमयुगादीश्वरात् ॥ . चक्रे येन चतुर्दशापि विलसत्पूर्वाणि साऽङ्गान्यपि । श्रीमानाद्यगुरूत्तमः शमयताद्वस्तापमाऽऽपत्ततेः ॥६॥ प्राहुर्बुद्धिधनास्त्वदीयचरणोपास्तेः समस्ताङ्गिनो । नूनं त्वत्सदृशा भवेयुरिति यत्तत् सत्यमाभाति नः ॥ यस्मादेष महीधरोऽपि समभूत् श्रीपुण्डरीकाह्वयः । संसारार्णवतारणैकनिपुणस्त्वत्पादसंस्पर्शतः ॥ ७ ॥ अल्पः कल्पतरुः स कामकलशो न स्यात् शिवस्यास्पदम् । प्राश्चत्कल्पलता सतामनुचिता चिन्तामणौ नादरः ।। स्वामिन् ! कामगवी न वीक्षणपथे संजायते कर्हिचित् । चिन्तातीतफलप्रदाननिपुण ! त्वत्पादपद्मात् पुरः ॥८॥ यत् त्वां ध्यानपथं कथंचन नये-चेतस्तदेवोत्तमम् । धन्याऽसौ रसना सदा तव गुणग्रामस्तुतौ सादरा ॥ ये त्वद्पनिभालकरसिके नेत्रे पवित्रे नृणाम् । श्रीशत्रुजयभूधरैकमुकुट ! श्रीपुण्डरीकप्रभो ! ॥ ६ ॥ श्रीमत्केवलबोधदर्पणतले संक्रांतलोकत्रयम् ।। हस्तन्यस्तविशुद्धमौक्तिकमिवाबाभाति यस्येशितुः ।। स्वाह्वानस्मरणाकृतां भवभृतां संसारवारांनिधेः । स्वामी तारयताद्धताऽन्तररिपुः स श्रीगणाधीश्वरः ॥१०॥

Page Navigation
1 ... 111 112 113 114 115 116 117 118