Book Title: Updesh Saptatika
Author(s):
Publisher: Jain Dharm Prasarak Sabha
View full book text
________________
+ 10
कषायचोरैर्जिन ! लुप्यमानं रत्नत्रयं मे तदुपेचसे किम् ? || ६ || लब्धोऽसि स त्वं मयका महात्मा भवाम्बुधौ बंभ्रमता कथंचित् । आः ! पापपिंडेन नतो न भक्त्या न पूजितो नाथ ! न तु स्तुतोऽसि ।। संसारचक्रे भ्रमयन् कुबोधदंडेन मां कर्म महाकुलालः । करोति दुःखप्रचयस्थभाण्डं ततः प्रभो ! रक्ष जगच्छरण्य ! | कदा त्वदाज्ञाकरणाप्ततस्वस्त्यक्त्वा ममत्वादि भवैककंदम् । आत्मैकसारो निरपेक्षवृत्तिर्मोक्षेऽप्यनिच्छो भवितास्मि नाथ ! ॥ तव त्रियामापतिकान्तिकान्तैर्गुणैर्नियम्यात्ममनः प्लवंगम् । कदा त्वदाज्ञामृतपानलोलः स्वामिन् ! परब्रह्मरतिं करिष्ये ॥ एतावतीं भूमिमहं त्वदंहिपद्मप्रसादाद् गतवानधीश ! | हठेन पापास्तदपि स्मराद्या ही ! मामकार्येषु नियोजयंति ||११|| भद्रे न किं त्वय्यपि नाथनाथे संभाव्यते मे यदपि स्मराद्याः । अपाक्रियते शुभभावनाभिः पृष्ठिं न मुंचति तथापि पापाः ॥ १२ ॥ भवाम्बुराशौ भ्रमतः कदापि मन्ये न मे लोचनगोचरोऽभूः । निस्सीमसीमंतकनारकादिदुःखातिथित्वं कथमन्यथेश ! || १३ || चक्रासिचापांकुशवज्रमुख्यैः सल्लक्षणैर्लक्षितमंहियुग्मम् । नाथ ! त्वदीयं शरणं गतोऽस्मि दुर्वारमोहादिविपक्षभीतः ॥ १४॥ starकारुण्य ! शरण्य ! पुण्य ! सर्वज्ञ ! निष्कंटक ! विश्वनाथ ! | दीनं हताशं शरणागतं च मां रक्ष रक्ष स्मरभिल्लभल्लेः ||१५|| त्वया विना दुष्कृतचक्रवालं नान्यः क्षयं नेतुमलं ममेश ! । किंवा विपक्षप्रतिचक्रमूलं चक्रं विना च्छेत्तुमलंभविष्णुः १ ॥ १६ ॥ देवदेवो महेश्वरोऽसि बुद्धोऽसि विश्वत्रयनायकोऽसि । तेनान्तरं गारिंगणाभिभूतस्तवाग्रतो रोदिमि हा ! सखेदम् ||१७||
!
P

Page Navigation
1 ... 113 114 115 116 117 118