Book Title: Tilakamanjiri Part 2
Author(s): Dhanpal Mahakavi, Shantyasuri, Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad

View full book text
Previous | Next

Page 61
________________ तिलकमञ्जरी। २०३ प्रचलितरसाकुलभूभृच्चक्रवालकृततुमुलः प्रसृतरभसोत्तालगजदानवारिरातत्रिदशदारिकान्विष्यमागरमणसार्थों निपीतनरवशाविस्वरबिसारिशिवाफेत्कारडामरः [च] । सतारकावर्ष इव वेतालदृष्टिभिः, सोल्कापात इव निशितप्रासवृष्टिभिः, सनिर्घातपात इव गदाप्रहारैः, ससंवर्तकाम्बुदुर्दिन इव करिशीकरासारैः, सोत्पातरविमण्डल इव कीलालितकरालचक्रमुक्तिभिः, सवैद्युतस्फूर्ज इव जवापतज्ज्वलितशक्तिभिः, सखण्डपरशुताण्डव इब प्रचण्डानिलधूतध्वजसहौः, सकालाग्निधूम इव प्रकुपितसुभटभ्रकुटीतमिस्रैरजायत महाप्रलयसंनिभः टिप्पनकम्-प्रचलितरसाकुलभूभृञ्चक्रवालकृततुमुलः एकत्र प्रचलितवसुन्धराकुलगिरिचक्रविहिताकुल शब्दः, अन्यत्र प्रचलितवीररसाकुलनृपचकृताकुलारवः । प्रसृतरभसोत्तालगजदानवारिः एकत्र प्रसृतं-प्रवृत्तम् , स्भलोत्तालगजानाम्-उत्सुकोनटकरिणाम, दानवारि-मदजलं यत्र स तथोक्तः, अन्यत्र प्रसृत उत्तालगजवद् दानवारिःशङ्करो यत्र स तथोक्तः । आतंत्रिदशदारिकाविष्यमाणरमणसार्थः एकत्र भार्ताभिस्तिसृभिर्दशभिश्च, दारिकाभिः-अङ्गनाभिः, भविष्यमाणो भर्तृसंघातो यत्र स तथा, अन्यत्र आर्तदेवपुत्रिकागवेष्यमाणभर्तृसंघातः । निपीते त्यादि-शिवाफेरकारडामरः-एकत्र चामुण्डाफेत्कारेण डामरः-रौद्रः, अन्यत्र कोष्ट्री० [च]। कीलालितः-सरुधिरः । . स्फुजः-स्फुरणम् । खण्डपरशु:-शङ्करः।कालाग्निः-पातालरुद्रः[छ। पक्षे तद्रूपमद्यपानपात्र विशेषा यस्मिंस्तादृशः; पुनः प्रचलितरसाकुलभूभृश्चक्रवालकृततुमुल: प्रचलितेन-उच्छलितेन, रसेन-वीररसेन, आकुलानाम्-आप्लुतानाम्, भूभृतां-राज्ञाम्, चकवालेन-मण्डलेन, कृतं तुमुलं-सान्द्रयुद्धं यस्मिन् , पक्षे प्रचलितायाः-प्रकम्पितायाः, रसायाः पृथिव्याः, कुलभूभृता-महेन्द्रादिकुलपर्वतानाम् , चऋवालेन-समूहेन, कृतम् , परस्परोपरि पतनरूपं सान्द्र युद्ध यस्मितादृशः; पुनः प्रसृतरभसोत्तालगजदानवारिः प्रसृत-विस्तृतम् , रभसोत्तालानां-वेगोद्धतानाम्, गजानां, दानवारि-मदजलं यस्मिंस्तादृशः, पक्षे प्रसृतः-संहत्तुं व्यावृतः, रभसोसालःऔत्सुक्योन्तो हर्षमेदुरो वा, गजदानवस्य-गजासुरस्य, अरिः-शत्रुः शिवः संहारभैरव इति यावत्, यस्मिंस्तादृशः; पुनः आतंत्रिदशदारिकान्विष्यमाणरमणसार्थः आर्ताभिः-विरहव्यग्राभिः, त्रिदशदारिकाभिः-देवाशनाभिः, अन्विष्यमाणः, रमणसार्थ:-प्रियसमूहो यस्मिंस्तादृशः, युद्धे मृताना देवत्व प्राप्तः प्रसिद्ध्या वैधव्यविधरितानां तद्वनिताना वरान्वेषणोपपत्तेः, पक्षे त्रिदशाभिः-त्रिवृत्तदशसंख्यकाभिः, त्रिंशत्संख्यकाभिरिति यावत्, उपलक्षणत्वाद् बहुसंख्यकाभिरित्यर्थः, दारिकाभिः-अङ्गनाभिः, अन्विष्यमाणः, रमणसार्थ:-भर्तृगणो यस्मिस्तादृशः; पुनः निपीतनरवशा- . विस्वरविसारिशिवाफेत्कारडामरः निपीता-नितरां पानकर्मतामापादिता या, नराणां-मनुष्याणाम् , वशा-धातुविशेषः, तया विखरेण-विकृतस्वरेण, विसारिणीनां-प्रसारिणीनाम् , शिवानां-शुगालीनाम्, पक्षे विसारिण्याः शिवायाः-चण्डिकायाः. फेत्कारेण-ध्वनिविशेषेण, डामरः-व्याप्तः, रौद्र इति यावत् [च]; पुनः वेतालदृष्टिभिः वेतालानां-मल्लविशेषाणाम् , पक्षे शिवानुचरविशेषाणाम् , दृष्टिभिः-दृष्टिपातः, सतारकावर्षे इव तारकाणां ताराणाम्, यद् वर्ष-वृष्टिः, तत्सहित इवेत्युत्प्रेक्षा; पुनः निशितप्रासवृष्टिभिः निशितानां-तीक्ष्णानाम् , प्रासाना-कुन्ताख्यास्त्राणाम् , या पृष्टयस्ताभिः, सोल्कापात इव उल्कापातसहित इवेति चोत्प्रेक्षा; पुनः गदामहारैः गदाप्रक्षेपैः, सनिर्घातपात इच वज्रपातसहित इव; पुनः . करिशीकरासारैः गजमदजलकणधारासम्पातैः, ससंवर्तकाम्बुदुर्दिन इव संवर्तकस्यतदाख्यमेघविशेषस्य, अम्बुभिः-जलैः, यद् दुर्दिन-मेघाच्छन्नदिनम् , तत्सहित इव; युनः कीलालितकरालचक्रमुक्तिभिः कीलालितं-रुधिराद्रीभूतम् , करालं-भयानकं च, यचक्र-तदाख्यमस्त्रम् , तन्मुक्तिभिः-तद्विमोचनैः, सोत्पादरविमण्डल इव उत्पातरविमण्डलेन-जगत्संहारसूचकसूर्यमण्डलेन, सहित इव; पुनः जवापतज्वलितशक्तिभिः जवेन-वेगेन, आपतन्तीभिः-निपतन्तीभिः, ज्वलिताभिः-दीप्ताभिः, शक्तिभिः-तदाख्यास्त्रविशेषैः, सवैद्युतस्फूर्ज इव वैद्युतेन-विद्युसम्बन्धिना, स्फूर्जेन-स्फुरणेन, सहित इव; पुनः प्रचण्डानिलधूतध्वजसहनैः प्रचण्डेन-उद्दण्डेन, अनिलेन-वायुना, धूताः-कम्पिताः, ये ध्वजास्तेषां सहस्रः, सखण्डपरशुताण्डव इव खण्डपरशो:-शिवस्य, ताण्डवेन-नृत्येन, सहित इव; पुनः प्रकुपितसुभटभृकुटीतमिस्त्रैः प्रकुपितानाम्-अतिकुद्धानाम् , सुभटाना-सुयोधानाम्, भृकुटीभिः-नेत्रीपरितनरोमराजिकौटिल्यैः, यानि तमिस्त्राणि-अन्धकारास्तैः, सकालाग्निधूम इव कालाने:-प्रलयकालिकाग्नेः, धूमेन सहित इवेति

Loading...

Page Navigation
1 ... 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190