Book Title: Tilakamanjiri Part 2
Author(s): Dhanpal Mahakavi, Shantyasuri, Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad

View full book text
Previous | Next

Page 125
________________ तिलकमञ्जरी । २६७ कूर्मि तार्क्ष्यवपुरिवाखण्डितं सर्पदशनैर्वसुंधराया मधुरिपोच वास इति विश्रुतमुद्वहन्तं चारि भगवन्तमम्भोनिधिमपश्यम् [ औ ] | तस्य चाविषमविस्तीर्णावकाशे सर्वतो वहत्स्वादुसलिलस्रोतसि चलाचलप्रान्तपरिसरे सन्निविष्टम्, अनतिसन्निकृष्टप्रधान सचिवावासम्, उल्लासितानेकवर्णघनवितानैरुत्पातगगनमिव दिगन्तैः परिगतमशेषतः सामन्तशिविरैः, प्रतिद्वारमुच्छ्रतानेक्रम करतोरणम्, अनेककक्षान्तरोपेतम्, इतस्ततः प्रकल्पिताधिकारिकर्मशालं, कुण्डलीकृतशक्रकोदण्डशोभा विडम्बनदक्षाभिः शरीररक्षाधिकार नियुक्तानां वीरपुरुषाणामन्योऽन्यलग्नाभिरनेकवर्णगुणल्यनिकाभिस्त्रिः परिक्षिप्तम्, ऊर्ध्वनिखात निश्चलस्थूणाश्रेणि संयतया वेणुदण्डिकामय्या महाप्रमाणया वृत्या समन्ततः परिवृतैः श्वेतैश्च शितिभिश्च लोहितैश्च कल्माषैश्च महाकायमण्डपिका मण्डिताजिरैरखण्डबुनाण्डकपरिमण्डलाकारैः पटागारैः स्थपुटितावकाशं स्वावासमत्रजम् [अं] । टिप्पनकम् - उल्लासितानेकघनवितानैः स्वीयैयत (?) [ रुद्धपर्यन्त ] नानावर्णमेघ संघातैः, अन्यत्रोल्लासितानेकवर्णनिबिढचन्द्रोदयैः [अं] । यस्य तादृशमिति विरोधः, तदुद्धारे तु कूर्माः - कच्छपाः सन्ति अस्मिन्निति व्याख्येयम्; पुनः तार्क्ष्यवपुरिव गरुडशरीरमित्र, सर्पदशनैः सर्पदन्तैः, अखण्डितम् अवदारितम् अन्यन्त्राखण्डितमपरिच्छिन्नम्, अशनैः - शीघ्रं, सर्पत्-प्रसरत्, पुनः 'वसुन्धराया पृथिव्याः, मधुरिपोः विष्णोश्व, वासः वस्त्रं वासस्थानं च इति विश्रुतम् [ औ ] । च पुनः, तस्य समुद्रस्य, चलाचलप्रान्तपरिसरे चलाचले - चञ्चले, प्रान्तपरिसरे - निकट कच्छस्थले, सन्निविष्टं समवस्थितम्, स्वावासं खनिवासस्थानम्, अव्रजम् अगच्छम् । कीदृशे ? अविषमविस्तीर्णावकाशे अविषमः समभूतः, विस्तीर्णः - दीर्घश्व, अवकाशो - निरावरणस्थानं यस्मिंस्तादृशे, पुनः सर्वतः सर्वभागेषु, वहत्वादुसलिलस्रोतसि वहन्तिस्यन्दमानानि, खादूनां मधुराणां सलिलानां जलानां, स्रोतांसि प्रवाहा यस्मिंस्तादृशे कीदृशमावासम् ? अनतिसन्निकृष्टप्रधान सचिवावासम् अनतिसन्निकृष्टः-- अनत्यन्तसन्निहितः, प्रधानसचिवस्य- मुख्यमन्त्रिगः, आवासो - वासभवनं यस्य तादृशम् ; पुनः दिगन्तैः दिगमैः, उत्पातगगनमिव युगान्त कालिकाकाशमण्डलमिव, सामन्तशिबिरैः क्षुद्रनुपसेनासन्निवेशैः, अशेषतः सर्वतः परिगतं परिवृतम्, कीटशैर्दिगन्तैः सेनासन्निवेशैश्वे याह- उल्लासितानेकवर्ण घन वितानैः उल्लासिताः-उन्नमिताः, अनेकवर्णाः - नानावर्णाः, घनाः - निविडाश्च, वितानाः-उल्लोचाः चन्द्रातपा येषु तादृशैः, पक्षे उल्लासिता नानावर्णा धनाः- मेघा एवं बितानाः, तादृशानां घनानां - मेघानां वितानाः - विस्तारा वा येषु तादृशैः; पुनः प्रतिद्वारं सर्वद्वारेषु, उच्छ्रितानेकमकरतोरणम् उच्छ्रिताः- उन्नमिताः, अनेके मकरतोरणाः-नक्रमया बाह्यद्वाराणि यस्मिंस्तादृशम् ; पुनः अनेककक्षान्तरोपेतम् अनेकैः - बहुभिः, कक्षान्तरैः - अवान्तरभवनावलीभेदैः, उपेतं युक्तम् ; पुनः इतस्ततः अत्र तत्र, प्रकल्पिताधिकारिकर्मशालं प्रकल्पिताः- निर्मिताः, अधिकारिणां कार्याधिकृतजनानां, कर्मशाला:- कार्यालया यस्मि स्तादृशम् ; पुनः शरीररक्षाधिकार नियुक्तानां - राजकीयशरीररक्षणात्मक कार्ये कृतनियोगानाम्, वीरपुरुषाणां पराक्रमशालिजनानाम्, अनेकवर्णगुणलयनिकाभिः अनेकवर्णाः - नानावर्णा ये गुणाः - तन्तवः, तन्मयीभिः, लयनिकाभिः मण्डपिकाभिः, त्रिः त्रिवारम्, परिक्षितं परिवेष्टितम् कीदृशीभिः ? कुण्डलीकृतशककोदण्डशोभा विडम्बनदक्षाभिः कुण्डलीकृतस्य- वलयाकारितस्य शक्रकोदण्डस्य -- इन्द्रधनुषः, या शोभा तद्विडम्बनदक्षाभिः - तदनुकरणकुशलाभिः, पुनः अन्योऽन्यलग्नाभिः परस्परसम्बद्धाभिः पुनः कीदृशम् ? पटागारैः वस्त्रमयगृहैः, स्थपुटितावकाश स्थपुटितः - नित्रोन्नतीकृतः, व्याप्त इति यावत्, अवकाशः - अनावृत्त प्रदेशो यस्मिंस्तादृशम् कीदृशैः ? वृत्या प्राकारेण, समन्ततः सर्वतः, परिवृत्तैः परिवेष्टितैः कीदृश्या वृत्त्या ? ऊर्ध्व निखातनिश्चलस्थूणाश्रेणिसंयतया ऊर्ध्वया - उन्नतया, यद्वा ऊर्ध्वे - उपरिभागे, निखातया- भूगर्भावस्थापितमूलया, निश्चलया - स्थिरया, स्थूणाश्रेण्या - स्तम्भपङ्ख्या, संयतमा नियत्रितया पुनः वेणुदण्डिकामय्या वंशयष्टिप्रचुरया, महाप्रमाणया अधिकप्रमाणया, अत्युन्नतयेत्यर्थः, पुनः श्वेतैः शुभ्रवर्णैः च पुनः, शितिभिः कृष्णवर्णैः च पुनः, लोहितैः रक्तवर्णैः, च पुनः, कल्माषैः चित्रवर्णैः, पुनः महाकाय मण्डपिका

Loading...

Page Navigation
1 ... 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190