Book Title: Tattvasangraha Part 02
Author(s): Dwarikadas Shastri
Publisher: Bauddh Bharati

View full book text
Previous | Next

Page 15
________________ स्याद्वादपरीक्षा ४१९ स्यादेतत्। धर्मभेदकल्पनायाः किं निबन्धनम्,अवश्यं ह्यस्या' भिन्नेन निबन्धनेन भाव्यम्, अन्यथा वस्तुसाङ्कर्यं स्यात्, ततश्च यत्तद्भिन्नं निबन्धनं स एव च पारमार्थिको धर्मभेदोऽस्माकम् ? इत्याह सजातीयविजातीयानेकव्यावृत्तवस्तुनः । ततस्ततः परावृत्तेधर्मभेदस्तु कथ्यते ॥१७३०॥ एकस्यापि ततो युक्ता कल्पितासङ्ख्यरूपता। वास्तवं नैकभावस्य द्वैरूप्यमपि सङ्गतम् ॥ १७३१॥ सजातीयविजातीयं च तदनेकं चेति कर्मधारयः, तस्माद् व्यावृत्तं च तद्वस्तु चेति विग्रहः । तस्यैकस्य वस्तुनः, ततस्तत:=सजातीयाद् विजातीयाच्च, या परावृत्तिः, सा धर्मभेदव्यवस्थाया निबन्धनम्। तस्माद्यतः कल्पिताऽप्यनेकता सम्भवति, तस्माद् वास्तवं द्वैरूप्यमेकस्य न सङ्गतम्। अपिशब्देन सामान्येनं धर्मभेदपूर्वकत्वमात्रे साध्ये सिद्धसाध्यतामपि सूचयति ॥ १७३०-१७३१॥ . ... स्यादेतत्। नरसिंहादिभिरनेकान्तः, तथा हि-नरसिंहादय एकस्वभावा अपि भाविकेन द्वैरूप्येणाविरुद्धाः समुपलभ्यन्ते? इत्याह नरसिंहादयो ये हि द्वैरूप्येणोपवर्णिताः। तेषामपि द्विरूपत्वं भाविकं नैव विद्यते ॥१७३२॥ । स ह्यनेकाणुसन्दोहस्वभावो नैकरूपवान् । यच्चित्रं न तदेकं हि नानाजातीयरत्नवत् ॥१७३३॥ ऐक्ये स्यान्न द्विरूपत्वान्नानाकारावभासनम् । मक्षिकापदमात्रेऽपि पिहितेऽनावतिश्च न ॥१०३४॥ [G.492] आदिशब्देन मेचकरत्नादिपरिग्रहः । सहति नरसिंहः । सन्दोह::समूहः। रूपमस्यास्तीति रूपवान्, एकेन रूपवानिति विग्रहः । अनेन दृष्टान्तस्य प्रतिवाद्यसिद्धतामाह । न हि बौद्धं प्रति नरसिंह एकोऽवयवी सिद्धः; अनेकाणुसमूहत्वात्। तत्रैकत्वनिराकरणे प्रमाणमाहयच्चित्रं न तदेकम्, यथा नानाजातीयरत्नसमूहः । चित्रश्च नरसिंह इति स्वभावविरूद्धोपलम्भः, व्यापंकविरूद्धस्य वा। ऐक्ये सति द्विरूपत्वनिमित्तनानाकारावभासानुपपत्तिर्बाधकं प्रमाणम्, प्रतिभासभेदनिबन्धनत्वाद् भेदव्यवस्थायाः । एकदेशावरणे सर्वावरणप्रसङ्गश्च बाधकं प्रमाणम्। न ह्येकस्यावृतत्वमनावृतत्वं चेति युगपद्विरुद्धधर्मसंसर्गो युक्तः ॥ १७३२-१७३४॥ यद्यनेकाणुसमूहमात्रं नरसिंहः, कथं तर्हि द्विरूपानुगतैकवस्त्वध्यवसायी प्रत्ययः? इत्याह नृसिंहभागानुस्यूतप्रत्यभिज्ञानहेतवः । ते चाणवः प्रकृत्यैव विशिष्टप्रत्ययोद्भवात् ॥१७३५॥ एतेनेव प्रकारेण चित्ररत्नादयो गताः। नानात्मना हि वैचित्र्यमेकत्वेन विरुध्यते ॥ १७३६ ॥ १. चास्या-पा०, गा०। २. ०गतैकस्त्वध्य०- पा०।

Loading...

Page Navigation
1 ... 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 ... 450