Book Title: Tattvasangraha Part 02
Author(s): Dwarikadas Shastri
Publisher: Bauddh Bharati

View full book text
Previous | Next

Page 13
________________ ४१७ स्याद्वादपरीक्षा - ते चानुवृत्तिव्यावृत्तिबुद्धिग्राह्यतया स्थिताः ॥१७१९ ॥ 'आद्या एतेऽनुवृत्तत्वात् सामान्यमिति कीर्त्तिताः। विशेषास्त्वभिधीयन्ते व्यावृत्तत्वात् ततोऽपरे ॥१७२०॥ [G.489] अयमत्र परमार्थ:--मेचकरत्नवदेकमेव वस्त्वनेकाकारम्, ते चाकाराः केचिदनुवृत्तिबुद्धिग्राह्याः, केचिद् व्यावृत्तिबुद्धिग्राह्याः । तत्र येऽनुवृत्तिबुद्धिग्राह्याः, तेऽनुवृत्ततया ‘सामान्यम्' इति कीर्त्यन्ते; ये तु ततोऽपरे व्यावृत्तिबुद्धिग्राह्याः, ते व्यावृत्तत्वाद् 'विशेषाः' इति कल्प्यन्ते । तत्रानुवृत्तिबुद्धिः-'भावो भावः' इत्याद्यभेदाकारा, व्यावृत्तिबुद्धिः-'घटोऽयं न पटः' इत्येवमादिभेदाकारा ॥ १७१९-१७२० ॥ तदत्र प्रतिविधत्ते परस्परस्वभावत्वे स्यात् सामान्यविशेषयोः। • साङ्कर्यं तत्त्वतो नेदं द्वैरूप्यमुपपद्यते ॥ १७२१॥ परस्परास्वभावत्वेऽप्यनयोरनुषज्यते । नानात्वमेवम्भावेऽपि द्वैरूप्यं नोपपद्यते ॥१७२२॥ अत्र पक्षद्वयम्-किं यदेव सामान्यं स एव विशेषः, आहोस्विदन्यत् सामान्यमन्यो विशेष इति । तत्र प्रथमे पक्षे सामान्यविशेषयोः परस्परस्वभावत्वे साङ्कर्यं स्यात् । ततश्च'इदं सामान्यमयं विशेषः' इति विभागाभावात् परमार्थत एकस्य वस्तुनो द्वैरूप्यं नोपपद्यते । अथ मा भूत् साङ्कर्यमिति द्वितीयः पक्ष: समाश्रीयेत? तत्र परस्परास्वभावत्वेऽप्यङ्गीक्रियमाणे नानात्वम् स्वभावभेदः सामान्यविशेषयोः सम्प्रसज्यते। एवं ह्यनयोरसाङ्कर्यं भवेद्, यद्यनयोर्नानात्वं स्यात्, ततश्चैवम्भावेऽपि-नानात्वेऽपि वस्तुद्वयमेव केवलं जातमिति नैकस्य वस्तुनो द्वैरूप्यं युक्तम्। अथापि स्यात्-यदि नाम सामान्यविशेषयोः परस्परं स्वभावविवेको जातः, तथापि सामान्यविशेषात्मकं वस्त्वभिन्नमेवेति? तदेतत्तु परस्परविरुद्धम् । तथा हि-एकस्माद्वस्तुनः सामान्यविशेषयोरभेदेऽङ्गीक्रियमाणे कथमनयोः परस्परं स्वभावविवेकः सिध्येत्; एकस्मादभेदे तयोरप्यभेदप्रसङ्गाद्, एकवस्तुस्वभाववत् । सामान्यविशेषयोश्च परस्परं स्वभावविवेकेऽङ्गीक्रियमाणे ताभ्यामभिन्नमेकं वस्तु न सिध्येत्; ताभ्याभिन्नत्वात् तस्याप्येकत्वेनाभिमतस्य द्वित्वप्रसङ्गात्, सामान्यविशेषस्वरूपवत् । तस्माद् 'एकमुभयात्मकम्' इति परस्परव्याहतमेतत् ॥ १७२१-१७२२॥ सत्यपीत्यादिना सुमतेर्मतमाशङ्कते सत्यप्येकस्वभावत्वे धर्मभेदोऽत्र सिध्यति। भेदसंस्थाऽनिरोधश्च यथा कारकशक्तिषु॥१७२३॥ न दृष्टेऽनुपपन्नं च तत्सामान्यविशेषयोः । ऐकात्म्येऽपीक्ष्यते भेदलोकयात्रानुवर्त्तनम्॥१७२४ ।। |G.490] स हि चोद्योपक्रमे परिहारं किलात्राह-तत्सामान्यविशेषयोः परस्परस्वभाव१.संस्थाऽविरोधश्च-पा०,गा० । २.यत्सामान्य०-पा०, गा० ।

Loading...

Page Navigation
1 ... 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 ... 450