________________
४१७
स्याद्वादपरीक्षा - ते चानुवृत्तिव्यावृत्तिबुद्धिग्राह्यतया स्थिताः ॥१७१९ ॥
'आद्या एतेऽनुवृत्तत्वात् सामान्यमिति कीर्त्तिताः।
विशेषास्त्वभिधीयन्ते व्यावृत्तत्वात् ततोऽपरे ॥१७२०॥ [G.489] अयमत्र परमार्थ:--मेचकरत्नवदेकमेव वस्त्वनेकाकारम्, ते चाकाराः केचिदनुवृत्तिबुद्धिग्राह्याः, केचिद् व्यावृत्तिबुद्धिग्राह्याः । तत्र येऽनुवृत्तिबुद्धिग्राह्याः, तेऽनुवृत्ततया ‘सामान्यम्' इति कीर्त्यन्ते; ये तु ततोऽपरे व्यावृत्तिबुद्धिग्राह्याः, ते व्यावृत्तत्वाद् 'विशेषाः' इति कल्प्यन्ते । तत्रानुवृत्तिबुद्धिः-'भावो भावः' इत्याद्यभेदाकारा, व्यावृत्तिबुद्धिः-'घटोऽयं न पटः' इत्येवमादिभेदाकारा ॥ १७१९-१७२० ॥ तदत्र प्रतिविधत्ते
परस्परस्वभावत्वे स्यात् सामान्यविशेषयोः। • साङ्कर्यं तत्त्वतो नेदं द्वैरूप्यमुपपद्यते ॥ १७२१॥
परस्परास्वभावत्वेऽप्यनयोरनुषज्यते ।
नानात्वमेवम्भावेऽपि द्वैरूप्यं नोपपद्यते ॥१७२२॥ अत्र पक्षद्वयम्-किं यदेव सामान्यं स एव विशेषः, आहोस्विदन्यत् सामान्यमन्यो विशेष इति । तत्र प्रथमे पक्षे सामान्यविशेषयोः परस्परस्वभावत्वे साङ्कर्यं स्यात् । ततश्च'इदं सामान्यमयं विशेषः' इति विभागाभावात् परमार्थत एकस्य वस्तुनो द्वैरूप्यं नोपपद्यते । अथ मा भूत् साङ्कर्यमिति द्वितीयः पक्ष: समाश्रीयेत? तत्र परस्परास्वभावत्वेऽप्यङ्गीक्रियमाणे नानात्वम् स्वभावभेदः सामान्यविशेषयोः सम्प्रसज्यते। एवं ह्यनयोरसाङ्कर्यं भवेद्, यद्यनयोर्नानात्वं स्यात्, ततश्चैवम्भावेऽपि-नानात्वेऽपि वस्तुद्वयमेव केवलं जातमिति नैकस्य वस्तुनो द्वैरूप्यं युक्तम्।
अथापि स्यात्-यदि नाम सामान्यविशेषयोः परस्परं स्वभावविवेको जातः, तथापि सामान्यविशेषात्मकं वस्त्वभिन्नमेवेति? तदेतत्तु परस्परविरुद्धम् । तथा हि-एकस्माद्वस्तुनः सामान्यविशेषयोरभेदेऽङ्गीक्रियमाणे कथमनयोः परस्परं स्वभावविवेकः सिध्येत्; एकस्मादभेदे तयोरप्यभेदप्रसङ्गाद्, एकवस्तुस्वभाववत् । सामान्यविशेषयोश्च परस्परं स्वभावविवेकेऽङ्गीक्रियमाणे ताभ्यामभिन्नमेकं वस्तु न सिध्येत्; ताभ्याभिन्नत्वात् तस्याप्येकत्वेनाभिमतस्य द्वित्वप्रसङ्गात्, सामान्यविशेषस्वरूपवत् । तस्माद् 'एकमुभयात्मकम्' इति परस्परव्याहतमेतत् ॥ १७२१-१७२२॥ सत्यपीत्यादिना सुमतेर्मतमाशङ्कते
सत्यप्येकस्वभावत्वे धर्मभेदोऽत्र सिध्यति। भेदसंस्थाऽनिरोधश्च यथा कारकशक्तिषु॥१७२३॥ न दृष्टेऽनुपपन्नं च तत्सामान्यविशेषयोः ।
ऐकात्म्येऽपीक्ष्यते भेदलोकयात्रानुवर्त्तनम्॥१७२४ ।। |G.490] स हि चोद्योपक्रमे परिहारं किलात्राह-तत्सामान्यविशेषयोः परस्परस्वभाव१.संस्थाऽविरोधश्च-पा०,गा० ।
२.यत्सामान्य०-पा०, गा० ।