________________
४१८
तत्त्वसंग्रहे विरहानभ्युपगमे सङ्कीर्णता प्राप्नोति? नैष दोषः; तयोरेकस्वभावतया सत्यामाप सकीर्णतायां धर्मभेदः प्रसिध्यति, कारकशक्तिवत्। तथा हि-बलाहको विद्योतते, बलाहकाद् विद्योततेइत्यादिकार्यभेदाद् विद्यमानात्मानः कारणशक्तयः समुपलभ्यन्ते द्रव्यस्वभावाव्यतिरिक्ततया सङ्कीर्णतायामपि सत्याम्। तदनभ्युपगमे लोकशास्त्रविरोधोऽवश्यम्भावी।
अपि च न हि दृष्टेऽनुपपन्नं नाम । तथा हि-सामान्यविशेषयोरेकवस्तुस्वभावत्वेऽप्यसङ्कीर्णताया भेदेन' लोकयात्रानुवर्तनमुपलभ्यत एव। भेदेन लोकयात्रा=भेदलोकयात्रा; साऽनुवर्त्यते येनैकात्म्येन तत्तथोक्तम्। प्रयोगः-एकस्य वस्तुनो यो भेदव्यवहारः स धर्मभेदनिबन्धनः, यथा कारकशक्तिषु। भेदव्यवहारश्चयमेकस्मिन् सामान्यविशेषलक्षण इति स्वभावहेतुः ॥ १७२३-१७२४॥ . नन्क्त्यिादिना प्रतिविधत्ते
ननु सत्येकरूपत्वे धर्मभेदो न सिध्यति। . . __ अकल्पितो विभेदो हि नानात्वमभिधीयते॥१७२५॥
अनेन हेतोविरुद्धतामाह; इष्टविपरीतसाधनात् । तथा हि-पारमार्थिको धर्मभेदोऽत्र वादिनः साधयितुमिष्टः, स चाकल्पितो धर्मभेदो न सिध्यति; वस्तुन एकत्वाभ्युपगमात्, तस्य चैकस्य वस्तुनो भेदविरोधात्,यतो भेद इति नानात्वमभिधीयते, यच्च नाना तत् कथमेकं स्यात् ! ॥ १७२५ ॥ दृष्टान्ते च न केवलं साध्यशून्यता, अपि तु साध्यविपर्ययेण हेतुर्व्याप्त इति दर्शयन्नाह
नानात्मत्वं तु शक्तीनां विवक्षामात्रनिर्मितम्।
एकवस्त्वात्मकत्वे हि न भेदोऽत्रापि युक्तिमान्॥१७२६॥ स्यादेतत्-यद्यपि भेद इति नानात्वमभिधीयते, तदेव नानात्वमेकस्य वस्तुनो भाविकं कथं विरुद्धम्, येन तद्विपरीतं साधयद् विरुद्धो भवेत् ? इत्याह
एकमित्युच्यते तद्धि यत् तदेवेति गीयते। नानात्मकं तु तत्राम न तद् भवति यत् पुनः॥१७२७॥ तद्भावश्चाप्यतद्भावः परस्परविरोधतः। .
एकवस्तुनि नैवायं कथञ्चिदवकल्प्यते॥१७२८॥ [G.491) यत्तदेतदिति तत्त्वेन विधीयते तद् एकम्' इत्युच्यते, यथा चैतन्यपुरुषयोः। वस्तुनः सतस्तत्त्वनिषेधे नानात्वम्, यथा भूतचैतन्ययोः । ततश्च विधिप्रतिषेधयोरेकत्रायोगात् तद्भावलक्षणात् तद्भावलक्षणयोरेकत्वनानात्वयोः परस्परविरोध इति कल्पित एवैकस्य धर्मभेदः ॥ १७२७-१७२८॥ कथं तद्भावातद्भावयोर्विरोधः? इत्याह
विधानप्रतिषेधौ हि परस्परविरोधिनौ।
शक्यावेकत्र नो कर्तुं केनचित् स्वस्थचेतसान। १७२९॥ १. भेदेऽपि-पा०,गा०।
२. धर्मभेदो-पा०,गा०।
३. पा०,गा० पुस्तकयोनास्ति। ४. च-पा०.गा०/
६. साधयन्- जै०।
५. एकतत्त्वा-पा०,गा०/