________________
स्याद्वादपरीक्षा
४१९ स्यादेतत्। धर्मभेदकल्पनायाः किं निबन्धनम्,अवश्यं ह्यस्या' भिन्नेन निबन्धनेन भाव्यम्, अन्यथा वस्तुसाङ्कर्यं स्यात्, ततश्च यत्तद्भिन्नं निबन्धनं स एव च पारमार्थिको धर्मभेदोऽस्माकम् ? इत्याह
सजातीयविजातीयानेकव्यावृत्तवस्तुनः । ततस्ततः परावृत्तेधर्मभेदस्तु कथ्यते ॥१७३०॥ एकस्यापि ततो युक्ता कल्पितासङ्ख्यरूपता।
वास्तवं नैकभावस्य द्वैरूप्यमपि सङ्गतम् ॥ १७३१॥ सजातीयविजातीयं च तदनेकं चेति कर्मधारयः, तस्माद् व्यावृत्तं च तद्वस्तु चेति विग्रहः । तस्यैकस्य वस्तुनः, ततस्तत:=सजातीयाद् विजातीयाच्च, या परावृत्तिः, सा धर्मभेदव्यवस्थाया निबन्धनम्। तस्माद्यतः कल्पिताऽप्यनेकता सम्भवति, तस्माद् वास्तवं द्वैरूप्यमेकस्य न सङ्गतम्। अपिशब्देन सामान्येनं धर्मभेदपूर्वकत्वमात्रे साध्ये सिद्धसाध्यतामपि सूचयति ॥ १७३०-१७३१॥ . ... स्यादेतत्। नरसिंहादिभिरनेकान्तः, तथा हि-नरसिंहादय एकस्वभावा अपि भाविकेन द्वैरूप्येणाविरुद्धाः समुपलभ्यन्ते? इत्याह
नरसिंहादयो ये हि द्वैरूप्येणोपवर्णिताः। तेषामपि द्विरूपत्वं भाविकं नैव विद्यते ॥१७३२॥ । स ह्यनेकाणुसन्दोहस्वभावो नैकरूपवान् । यच्चित्रं न तदेकं हि नानाजातीयरत्नवत् ॥१७३३॥ ऐक्ये स्यान्न द्विरूपत्वान्नानाकारावभासनम् ।
मक्षिकापदमात्रेऽपि पिहितेऽनावतिश्च न ॥१०३४॥ [G.492] आदिशब्देन मेचकरत्नादिपरिग्रहः । सहति नरसिंहः । सन्दोह::समूहः। रूपमस्यास्तीति रूपवान्, एकेन रूपवानिति विग्रहः । अनेन दृष्टान्तस्य प्रतिवाद्यसिद्धतामाह । न हि बौद्धं प्रति नरसिंह एकोऽवयवी सिद्धः; अनेकाणुसमूहत्वात्। तत्रैकत्वनिराकरणे प्रमाणमाहयच्चित्रं न तदेकम्, यथा नानाजातीयरत्नसमूहः । चित्रश्च नरसिंह इति स्वभावविरूद्धोपलम्भः, व्यापंकविरूद्धस्य वा। ऐक्ये सति द्विरूपत्वनिमित्तनानाकारावभासानुपपत्तिर्बाधकं प्रमाणम्, प्रतिभासभेदनिबन्धनत्वाद् भेदव्यवस्थायाः । एकदेशावरणे सर्वावरणप्रसङ्गश्च बाधकं प्रमाणम्। न ह्येकस्यावृतत्वमनावृतत्वं चेति युगपद्विरुद्धधर्मसंसर्गो युक्तः ॥ १७३२-१७३४॥
यद्यनेकाणुसमूहमात्रं नरसिंहः, कथं तर्हि द्विरूपानुगतैकवस्त्वध्यवसायी प्रत्ययः? इत्याह
नृसिंहभागानुस्यूतप्रत्यभिज्ञानहेतवः । ते चाणवः प्रकृत्यैव विशिष्टप्रत्ययोद्भवात् ॥१७३५॥ एतेनेव प्रकारेण चित्ररत्नादयो गताः।
नानात्मना हि वैचित्र्यमेकत्वेन विरुध्यते ॥ १७३६ ॥ १. चास्या-पा०, गा०।
२. ०गतैकस्त्वध्य०- पा०।