________________
४२०
तत्त्वसंग्रहे ___ नृसिंहयोर्ये भागास्तैरनुस्यूतम्-निर्भासीकृतं यत् प्रत्यभिज्ञानं तत्तथोक्तम् । एवम्भूतस्य प्रत्यभिज्ञानस्य यदा प्रकृत्यैव त एवाणवो हेतवो भवन्ति, तदा किमपरमवयविना कल्पितेन ! सा च तादृशी प्रकृतिः कुतस्तेषामिति चेद्? आह-विशिष्ट प्रत्ययोद्भवात् विशिष्टात् कारणादुत्पत्तेः। तत्र विशिष्टः प्रत्ययो गतिविशेषसंवर्तनीयं कर्म, स्वजातिसमुद्भूतः कललादिश्च । अनेनैव नरसिंहविचारेण मेचकरत्नादयो गताः=व्याख्याताः, इति न तेषां पृथक् दूषणं वक्तव्यम् ॥ १७३५-१७३६ ॥ यदुक्तम्- "सर्वं च वस्तुरूपेण भिद्यते न परस्परम्" (तत्त्व० १७१५) इत्यत्राह
अर्थक्रियासमर्थत्वं वस्तुत्वमभिधीयते। यदि तस्यानुगामित्वं सर्वं स्यात् सर्वकार्यकृत्॥१७३७॥ एकोऽपि जनकस्तस्य भावः सामर्थ्ययोगतः। तच्चाविशिष्टमन्यस्मिन्नित्यनुत्पादकः कथम् !॥१७३८॥ नीलाद्येव च वस्तुत्वमनुगामि यदीष्यते। सितपीताद्यपि प्राप्त नीलसंसाध्यकार्यकृत् । १७३९॥ एकमेव ततो जातं द्वितीयात्मविवर्जितम्। सर्व विश्वमतो नैकमनेकाकारमस्ति वः॥१७४०॥ तदेव चेन्न वस्तुत्वं । कणाशिमतसत्त्ववत्। नैकस्यानेकरूपत्वमेव वः स्याद् विभेदतः ॥१७४१॥ विरुद्धधर्मसङ्गश्च वस्तूनां भेदलक्षणम्। कथश्चिदन्यथेष्टोऽपि न भेदो नीलपीतयोः॥१७४२॥ अनुगाम्यन्यथाभावात् स च सामान्यभेदयोः।
विद्यते तत् कथं नास्ति तयोर्भेदः परिस्फुटम्॥१७४३॥ [G.493] अर्थक्रियाकारि यद्रूपं तद् वस्तुत्वमुच्यते, नान्यत्। तच्चेत् सर्वत्रानुगामि सर्वं सर्वार्थक्रियाकारि प्राप्नोति । तेनैव हि रूपेण सर्वे जनका इष्यन्ते । तस्य च सर्वत्राविशिष्टत्वादिति यत्किञ्चिद् यत: कुतश्चिदुत्पद्येत। किञ्च-यदेतन्नीलपीतादि, तदेव किं वस्तुत्वम्, आहोस्विदन्यत् ? यदि तदेव, तदा तस्यानुगामित्वात् सितपीताद्यपि नीलसाध्यवस्त्रर-अनाद्यर्थक्रियाकारि प्राप्नोति। अपि च-द्वितीयस्य स्वभावस्याभावात् २एकस्यैव च भावे 'सर्वं जगदेकमेव वस्तुजातमिति ‘एकमनेकाकारम्' इति प्रतिज्ञानार्थहानिः स्यात्। अथान्यदेव वस्तुत्वं नीलादिभ्यः, कणादाभिमतसत्त्ववत् यथा कणादस्य अभिमतं सत्ताख्यं व्यतिरिक्तं वस्तुत्वं नामेति, एवमपि सुतरामेकस्यानेकत्वमयुक्तम्; एकान्तेनैव भेदात्। किञ्च-यौ विरुद्धधर्मसंसर्गिणौ तौ भिन्नौ, यथा-शीतोष्णौ। विरुद्धधर्मसंसर्गश्च सामान्यविशेषयोर्विद्यते; अनुगाम्यन्यथाभावादिति स्पष्ट एव तयोर्भेदः। अन्यथाभावः अननुगामित्वम्। यदि च विरुद्धधर्मसंसर्गेऽपि भेदो नेष्यते, तदा नीलपीतयोर्योऽप्ययं कथञ्चिदविशेषरूपेण भेद इष्टः, ११. एकोऽर्थजनक०-पा०, गा०/ ३ ३. पाल गा० पुस्तकयोनास्ति।
२. नीलसाध्य०-पा०/.,