SearchBrowseAboutContactDonate
Page Preview
Page 17
Loading...
Download File
Download File
Page Text
________________ स्याद्वादपरीक्षा ४२१ . स न स्यात्, "बुद्धिभेदान्न चैकत्वं रूपादीनां प्रसज्यते" (श्वो० वा० प्र० सू० १५८) इति वचनात् कुमारिलेन नीलादीनां भेदस्योपवर्णितत्वात् ॥ १७३७-१७४३ ॥ यथेत्यादिना कौमारिलमतेन पुरप्यनैकान्तिकत्वमुद्भावयति यथा कल्माषवर्णस्य यथेष्ट रूपनिग्रहः। चित्रत्वाद् वस्तुनोऽप्येवं भेदाभेदावधारणे॥१७४४॥ यदा तु शबलं वस्तु युगपत् प्रतिपद्यते। तदाऽन्यानन्यभेदादि सर्वमेव प्रलीयते॥१७४५॥ [G.494] कल्माषवर्णः शबलो वर्णः । तस्य यथा नीलमिति वा, पीतमिति वा, लोहितमिति वा इत्यादिना यथेष्टं रूपनिग्रह:-रूपावधारणम्, तथा चित्रस्य अनेकरूपस्य वस्तुनः स्वपररूपाभ्याम् सदसदात्मनः सामान्यविशेषरूपाभ्यां व्यात्मन इच्छावशाद् भेदाभेदावधारणा । यदा भेदमवधारयितुमिच्छति तदा तमवधारयति, यदा' त्वभेदं सामान्यमवधारयितुमिच्छति तदा तमवधारयति । यदां तु युगपत्सामान्यविशेषात्मकं वस्तु झगिति प्रतिपद्यते, तदाऽन्यानन्यभेदादि चोद्यं प्रलीयते, नावतरतीत्यर्थः; प्रत्यक्षेण शबलस्य वस्तुनः प्रतीयमानत्वात्। - तत्रेदमन्यानन्यादिचोद्यम्-भिन्नेभ्योऽश्वादिपिण्डेभ्योऽनन्यत्वात् सामान्यस्यापि पिण्डवत् स्वरूपभेदप्रसङ्गः, सामान्यद्वाप्यभिन्नात्वादभेदो भेदानां सामान्यस्येव प्रसज्यते। तथा भेदाभेदौ परस्परं सामान्यविशेषयोः कथं विरुद्धौ स्याताम्! आदिशब्देन 'एकत्वानेकत्वे परस्परविरुद्ध',तथा 'तदेवं सामान्यं स एव विशेषः' इत्येवमादि ग्रहीतव्यम्॥ १७४४१७४५॥ - यद्येवम्, सर्वत्रैव शबलस्य प्रतीतिः स्यान्नतु क्रमयौपद्याभ्याम् ? इत्याशङ्कयाह. .. वस्तुनोऽनेकरूपस्य रूपमिष्टं विवक्षया। 'युगपत्क्रमवृत्तिभ्यां नान्योऽस्ति वचसां विधिः ॥१७४६॥ युगपत् क्रमेण वा यदस्य सामान्यविशेषादिरूपं व्यवस्थाप्यते, तद्विवक्षावशात् । यदा यौगपद्येन सदसद्रूपे विवक्षति सामान्यविशेषरूपं वा, तदा तस्य रूपं व्यवस्थाप्यते। अथ क्रमेण विवक्षति सद्रूपमसद्रूपं सामान्यविशेषं वा,तदास्य तद्व्यवस्थाप्यते। सर्वमेव हि तस्य स्वरूपं. स्वेच्छया क्रमाक्रमाभ्यां व्यपदिश्यते, विचिरत्नकोश इव मरकतपद्मरागादिरिति। अथ क्रमाक्रमौ मुक्त्वाऽन्येन प्रकारेण कस्मान्न निर्दिश्यते? इत्याह-नान्योऽस्ति वचसां विधिरिति । युगपत्क्रमवृत्तिभ्यामित्यपेक्षणीयम्। विधि:=प्रकारः ॥ १७४६ ।। नैवमित्यादिना प्रतिविधत्ते नैवमः चित्रत्वमेकत्वं प्रतिषिद्धं ानन्तरम्। अनेकरूपं वैचित्र्यमेकत्वेनासहस्थितम् ॥१७४७॥ १. वर्णनिग्रह इति त्रिषु पुस्तकेषु पाठः। २. वर्णनिग्रह:- पा०, गा०। ३. ०वधारणे-पा०, गा०। ४. विशेषमित्यर्थः। ५-५. पा०, गा० पुस्तकयो स्ति। ६. कुगिति-पा०। ७. पा०, गा० पुस्तकयो स्ति।
SR No.002259
Book TitleTattvasangraha Part 02
Original Sutra AuthorN/A
AuthorDwarikadas Shastri
PublisherBauddh Bharati
Publication Year1997
Total Pages450
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy