________________
४१६
तत्त्वसंग्रहे लक्ष्यते नास्तितां मुक्त्वा तारापथसरोजंवत् ॥१७११॥ तस्मात् खपुष्पातुल्यत्वमिच्छता तस्य वस्तुनः।।
वस्तुत्वं नाम सामान्यमेष्टव्यं तत्समानता ॥१७१२॥ सर्वथाऽपीत्यादिनाऽस्यैव प्रयोगद्वयस्यार्थं विस्तरेण समर्थयते ॥ १७१०-१७१२ ॥ अन्यथा हि न सा बुद्धिरित्यादिना सामान्यात्मकत्वसाधनयोपपत्त्यन्तरमाह
अन्यथा हि न सा बुद्धिर्वलिभुग्दशनादिषु। वर्त्तते नियता त्वेषा भावेष्वेवेति किं कृतम् ॥१७१३॥ सारूप्यान्नियमोऽयं चेत् सामान्यं च तदेव नः। स्वभावानुगता शक्तिरनेनैवोपवर्णिता ॥१७१४॥ अत्यन्तभिन्नता तस्माद् घटते नैव कस्यचित्।
सर्वं च वस्तुरूपेण भिद्यते न परस्परम् ॥१७१५॥ . [G.488] अन्यथेत । यदि च भावो भावान्तरातुल्य: स्यात्, तदा किमिति घटादिष्वेव भावो भावः' इत्यभिन्ना बुद्धिर्भवति, न तु काकदन्तादिष्विति तत्र कारणं वक्तव्यम्! सारूप्यं कारणमिति चेत् ? तदेव तर्हि सामान्यमिति सिद्धम्; सामान्यपर्यायत्वात् सारूप्यस्य। अनुयायिनी शक्तिरस्ति घटादिष्वेव, न काकदन्तादिषु, अतः स्वभावानुगता शक्तिः कारणमिति चेत् ? साऽप्यनेनैव सारूप्येण उपवर्णिता-व्याख्याता। सारूप्यंवदत्रापि समानमुत्तरमिति यावत्; तस्या एव सामान्यरूपत्वप्रसङ्गात् । तस्माद् वस्तुरूपेण सर्वं घटादि परस्परमभिन्नमिति सिद्धम् ॥ १७१३-१७१५॥ भेदसमर्थनार्थमाह
अवधीकृतवस्तुभ्यो वैरूप्यरहितं यदि। ... तद्वस्तु न भवेद् भिन्नं तेभ्योऽभेदस्तदात्मवत् ॥१७१६॥ तेभ्यः स्वरूपं भिन्नं हि वैरूप्यमभिधीयते। वैरूप्यं न च भिन्नं चेत्येतदन्योऽन्यबाधितम् ॥१७१७॥ तस्माद् भिन्नत्वमर्थानां कथञ्चिदुपगच्छता।.
वैरूप्यमुपगन्तव्यं विशेषात्मकताऽप्यतः॥१७१८॥ अवधीकृतवस्तुभ्य इति पटादिभ्योऽर्थान्तरेभ्यो यदि घटादि वैरूप्येण रहितं भवेत्, तदाऽभेदात् तेभ्यः पटादिभ्यस्तद् घटादि भिन्नं न भवेद्; आत्मस्वरूपवदभिन्नत्वप्रसङ्गात्। तथा हि-तेभ्य: पटादिभ्यो यद्विभिन्नं स्वरूपं घटादीनां तदेव खलु वैरूप्यमुच्यते, नान्यत् । ततश्च सत्यपि वैरूप्ये पटादीनाम् 'न च घटादिभ्यो भेदोऽस्ति' इति स्ववचनव्याहतिः, भेदवैरूप्ययोः पर्यायत्वात् ॥ १७१६-१७१८॥
एवं सामान्यविशेषात्मकं प्रसाध्य तयोः सामान्यविशेषयोरसाङ्कर्येण व्यवहारहेतुत्वं प्रतिपादयन्नाहवस्त्वेकात्मकमेवेदमनेकाकारमिष्यते ।
२. अवधीकृतेभ्य- पा०, गा० ।
F-
...गा
।