________________
तत्त्वसंग्रहे
20. स्याद्वादपरीक्षा
'अणीयसापि नांशेन मिश्रीभूतापरात्मकम्ं" (तत्त्व० ३) इत्येतत्समर्थनार्थं चोद्योपक्रमपूर्वकमाह
नन्वनेकात्मकं वस्तु यदा' मेचकरत्नवत् ।
प्रकृत्यैव सदादीनां को विरोधस्तथा सति ॥ १७०८ ॥
64
यदुक्तम्
‘अर्थक्रियासमर्थं च सदन्यदसदुच्यते ।
समावेशों न चैकत्र तयोर्युक्तो विरोधतः ॥" (तत्त्व० १६७४) इति। तदत्रा ह्रीकादयश्चोदयन्ति - " सर्वमेव वस्तु सामान्यविशेषात्मकत्वेनानेकात्मकम् यथा - शबलाभासं रत्नम् तत् कथं सदाद्गीनां विरोधः, येनोच्यते- 'समावेशो न चैकत्र इति । आदिशब्देन क्रियाक्रियैकत्वानेकत्वादयो गृह्यन्ते । यद्यपि चेदं [G.487] चोद्यम् 'नर् तदेतत्' (तत्त्व० १६७५ ) इत्यादिना परिहृतम्, तथापि विस्तरेण प्रतिपादनाय, वादान्तरं व दर्शयितुं पुनरुच्यते ॥ १७०८ ॥
तत्र सामान्यविशेषात्मकत्वस्खाधनाय यथाक्रममहीकः प्रयोगद्वयमाह - भावो भावान्तरातुल्यः खपुष्पान्न विशिष्यते ।
भाव इति' किञ्चित् विवक्षितं वस्तु घंटादि, स यदि घटादिर्भावः पटादि भावान्तरेणातुल्य; स्यात् - ततो यदि व्यावृत्तः स्यात्, तदा खपुष्पान्न तस्य विशेषः स्यात् सर्वथा वस्त्वन्तराद्व्यावृत्तत्वात् । न च वस्त्वन्तराद् व्यावृत्तस्यान्या गतिः सम्भवति खपुष्प मुक्त्वा । तस्मात् तस्य वस्तुनः खपुष्पातुल्यत्वमभ्युपगच्छता भावान्तरतुल्यत्वं वस्तुत्वं ना सामान्यमभ्युपगन्तव्यमिति सिद्धं सामान्यात्मकत्वम् ।
विशेषात्मकत्वं तर्हि कथमिति चेत् ? अत्रोच्यते
46
'अतुल्यत्वविहीनश्च तेभ्यो भिन्नो न सिध्यति ॥ १७०९ ॥
स एव घटादिर्भावो यदि पटादिना भावेन यदतुल्यत्वं तेन विहीनः स्यात्, घटादिना यद्यतुल्यो न भवेदिति यावत्, तदा – ' अयं घटः ', ' अयं च पटः ' – इति पटादिभ घटादिर्भिन्नो न सिध्येत्, स्वस्वरूपवत् । भिद्यते च तस्माद् विशेषात्मकत्मपि सिद्धम् ॥१७०९ ह्यतुल्यवादभिप्रेतेऽस्य वस्तुनः । वस्तुत्वमवहीयते ॥ १७१०॥
सर्वथापि वस्त्वन्तरेण वस्तुनो हि निवृत्तस्य कान्या" सम्भाविनी' गतिः ।
नियतं
१. यथा- पा. गा० ।
३. अतुल्यात्म० - जै०; अतुल्यत्वविहीनश्चेत्-- पा० गा । ५-५. क्रान्या सम्भविनि- पा०. गा० ।
२-२. पा०, गा० पुस्तकयोर्नास्ति ।
४. ह्यतुल्यत्वे ह्यभिप्रेते - पार, गाउ ।