Book Title: Tattvarthadhigam Sutram
Author(s): Keshavlal Premchand
Publisher: Bengal Asiatic Society

View full book text
Previous | Next

Page 9
________________ ॥ तत्त्वार्थाधिगमसूत्रम्॥ सम्यग्दर्शनशुद्धं यो ज्ञानं विरतिमेव चाप्नोति । दुःखनिमित्तमपौदं तेन सुलब्धं भवति जन्म ॥१॥ जन्मनि कर्मक्ले गैरनु' बद्धे ऽस्मिंस्तथा प्रयतितव्यम् । कर्मक्लेशाभावो यथा भवत्येष परमार्थः ॥ २ ॥ परमार्थालाभे वा दोषेष्वारम्भकस्वभावेषु । कुशलानुबन्ध मेव स्यादनवद्यं यथा कर्म ॥३॥ कर्माहितमिह चामुत्र चाधमतमो नरः समारभते । दहफलमेव त्वधमो विमध्यमस्तुभयफलार्थम् ॥४॥ परलोकहितायैव प्रवर्तते मध्यमः क्रियासु सदा । मोक्षायैव तु घटते विशिष्टमतिरुत्तमः पुरुषः ॥५॥ यस्तु कृतार्थो ऽयुत्तमा-मवाप्य धर्म परेभ्य उपदिशति । नित्यं स उत्तमेभ्यो ऽप्युत्तम इति पूज्यतम एव ॥६॥ तस्मादईति पूजामहन्नेवोत्तमोत्तमो लोके । देवर्षिनरेन्द्रेभ्यः पूज्येभ्योऽप्यन्यमत्त्वानाम् ॥७॥ १ सन्ततिवेशिते अनुबद्धे । २s दोष = कषाय । . ३ s अनुबन्ध = प्रयोजनम् । 8 S तथा प्रवर्तितव्यम् यथा कुशला नुबन्धं कर्म स्यात् । ५s तु = पुनः । ६ S उत्तमं मोक्षफलमवाप्य कृतार्थो भवतीति । ७ S एवकारश्चार्थे ।

Loading...

Page Navigation
1 ... 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 ... 332