________________
॥ तत्त्वार्थाधिगमसूत्रम्॥
सम्यग्दर्शनशुद्धं यो ज्ञानं विरतिमेव चाप्नोति । दुःखनिमित्तमपौदं तेन सुलब्धं भवति जन्म ॥१॥ जन्मनि कर्मक्ले गैरनु' बद्धे ऽस्मिंस्तथा प्रयतितव्यम् । कर्मक्लेशाभावो यथा भवत्येष परमार्थः ॥ २ ॥ परमार्थालाभे वा दोषेष्वारम्भकस्वभावेषु । कुशलानुबन्ध मेव स्यादनवद्यं यथा कर्म ॥३॥ कर्माहितमिह चामुत्र चाधमतमो नरः समारभते । दहफलमेव त्वधमो विमध्यमस्तुभयफलार्थम् ॥४॥ परलोकहितायैव प्रवर्तते मध्यमः क्रियासु सदा । मोक्षायैव तु घटते विशिष्टमतिरुत्तमः पुरुषः ॥५॥ यस्तु कृतार्थो ऽयुत्तमा-मवाप्य धर्म परेभ्य उपदिशति । नित्यं स उत्तमेभ्यो ऽप्युत्तम इति पूज्यतम एव ॥६॥ तस्मादईति पूजामहन्नेवोत्तमोत्तमो लोके । देवर्षिनरेन्द्रेभ्यः पूज्येभ्योऽप्यन्यमत्त्वानाम् ॥७॥ १ सन्ततिवेशिते अनुबद्धे । २s दोष = कषाय । . ३ s अनुबन्ध = प्रयोजनम् । 8 S तथा प्रवर्तितव्यम् यथा कुशला
नुबन्धं कर्म स्यात् । ५s तु = पुनः । ६ S उत्तमं मोक्षफलमवाप्य कृतार्थो भवतीति । ७ S एवकारश्चार्थे ।