Book Title: Tattvartha Sutra Mool
Author(s): Umaswati, Umaswami, 
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 5
________________ जम्बूद्वीप लवणोदादयः शुभनामानो द्वीपसमुद्रा।। विविर्विष्कम्भाः पूर्वपूर्वपरिक्षेपिणो वलयाकृतयः।। तन्मध्ये मेरुनाभिवृत्तो योजनशतसहस्रविषकम्भो जम्बूद्वीपः।। भरतहेमवतहरिविदेह रम्यक हैरण्य वतैरावतवर्षाः क्षेत्राणि।। तद्विभाजिनः पूर्वापरायता हिमवन्महाहिमवन्निषधनीलरुक्मि शिखरिणो वर्णधरपर्वताः।। हेमार्जुनतपनीय वैडूर्यरजत रेममयाः।। मणिविचिक्षपर्खा उपरि मूले च तुल्यविस्ताराः।। पद्ममहापद्मतिगिञ्छकेसरि महापुण्डरीकपुण्जरीकाहदास्तेषामुपरि।। प्रथमो योजनसहस्रायामस्तदर्धविषकम्भो ह्रदः।। दशयोजनावगाहः।। तन्मध्ये योजनं पुष्करम्।। तद्विगुणद्विगुणाह्रदः पुष्कराणि च।। तन्निवासिन्यो देव्यः श्री ह्रीधृतिकीर्तिबुद्धिलक्ष्म्यः पल्योपमस्थितयः ससामानिक परिषत्काः।। गंगासिन्धु रोहिद्रोहितास्याहरिद्धरिकान्तै सीतासीतोदानारीनरकान्ता सुवर्ण रूप्यकूला रक्तारक्तोदाः सरितस्तन्मध्यगाः।। द्वयोश्वयोः पूर्वाः पूर्वगाः।। शेषास्त्वपरगाः।। चतुर्दशनदीसहस्रपरिवृता गंगासिन्ध्वादयो नद्यः।। भरतः षडविंशतिपंचयोजनशतविस्तारः षटचैकोनविंशतिभागायोजनस्य।। तद्विगुणद्विगुणविस्तारा वर्षधरवर्षा विदेहान्ताः।। उत्तर दक्षिणतुल्याः।। तथोत्तरः।। विदेहेषु संख्येयकालाः।। भरतस्य विष्कम्भो जम्बूदवीपस्य नवतिशतभागः।। दविर्धातकीखण्डे।।

Loading...

Page Navigation
1 ... 3 4 5 6 7 8 9 10 11 12 13 14 15