Book Title: Tarangwati Katha
Author(s): Ajitsagarsuri
Publisher: Buddhisagarsuri Jain Gyanmandir
View full book text
________________
ShriMahavir Jain ArachanaKendra
Achanh
sagan Gyaan
अफ्रजम्मनः पुग्यतः स्मृतं किमपि दूषणं शेषतां गाम् । तदिह बन्धन जातमस्ति नौ करुणया प्रमो! तत्समुद्धर १ ॥२१६५॥ भवसमुद्धतेरीइनं च नो विषयवाञ्छपा वर्जितं मनः। अमृतपानमिच्छन्ति केन वै गरलपानमिच्छन्ति केपि न ॥ २१६६ ॥ त्वमसि कामदस्त्वां विना न मे, कथय वर्तते को जगवले । शरणवर्जितं नाथ ! तेन मां सपदि रक्षमा रक्ष मां प्रभो!२१६७ एतत्सकरुणाक्रन्दगीतश्रवणमात्रतः । हदि कारुणिका भावा जागृता मम सत्वरम् "
॥ २१६७॥ तदुदन्तश्रुतेर्जाता जातिस्मृतिरहो ! मम । स्वापराधं विदित्वैवं तस्मादुदारिताविमौ
॥ २१६८॥ सर्वेषामपि पापानां सहसा धपणाय च । स्वयं तस्माच मृत्वाऽपि रक्षणीयाविमो मया
॥ २१६९॥ मानुष्ये महान धर्मो नहि हेयः कदाचन । विवेके सति तत्यामो महागः कथ्यते बुधैः स्वस्वामिस्नेहतो वक्षो जथान पूचकार च । तेन कारास्थिताः सर्वा जीवने विरसा निजे ॥ २१७१॥ वनितास्तत्र संमिल्प दयावासितचेतसा । साकाङ्क्षा दमती प्रष्टुं तदुदन्तं प्रचक्रतुः
॥ २१७२॥ कस्मादागम्पते ? कुत्र गन्तुमीहा च वर्तते । तस्करकरसात कस्माजातौ कथय तं युवाम
॥ २१७३ ॥ साऽश्रुनेत्रावदद्योपिदस्मवृतान्तमादितः । श्रूयतां सावधानाभिर्दुःखदं शृण्वतामपि
॥२१७४।। चम्पान्तिकस्थितेऽरण्ये गङ्गातीरविभूषणे । गैरिकवणौ चक्राही स्नेहिनावाजस्व दम्पती ॥ २१७५।। परपा साकमहं मङ्गोपरि नैपुण्यतोऽतरम् । कल्लोला। शुशुमुस्तेन, सैकतेन युता इत्र
॥ २१७६।।
BREBESBESEXXIXEEEEEREAKERA
For Private And Personlige Only

Page Navigation
1 ... 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256