Book Title: Tarangwati Katha
Author(s): Ajitsagarsuri
Publisher: Buddhisagarsuri Jain Gyanmandir

View full book text
Previous | Next

Page 237
________________ Shri Mahavir Jain Aradhana Kendra www.bobatirth.org. ततः स प्राह “भो ! पुत्रौ ! युवां संयमपालने । तपोविधौ तथा तीव्रदुःखपारमवाप्नुताम् " ॥ ९१ ॥ ॥ ९३ ॥ " तीव्रस्य दुःखस्य तु पारमेतुं स्वसंयमो वा तप आदरो वा । कृत्वा द्वयं सीदति नैव कश्चित्सतां स मान्यः प्रथमो विपश्चित् " ॥ यथा " यत्पूर्वार्जितकर्मशैलकुलिशं यत्कामदावानल - ज्वालाजालजलं यदुग्रकरणग्रामाऽहिमन्त्राक्षरम् । यत्प्रत्यूहतमः समूहदिवसं यल्लब्धिलक्ष्मीलता - मूलं तद्विविधं यथाविधि तपः कुर्वीत वीतस्पृहः " " यस्माद्विघ्नपरंपरा विघटते दास्यं सुराः कुर्वते, कामः साम्यति दाम्यतीन्द्रियगणः कल्याणमुत्सर्पति । उन्मीलन्ति महर्द्धयः कलयति ध्वंसं च यः कर्मणां स्वाधीनं त्रिदिवं शिवं च भवति श्लाघ्यं तपस्तन्न किम् १ ॥ ९४ ॥ सन्तोषः स्थूलमूलः प्रशमपरिकरः स्कन्धबन्धप्रपञ्चः, पञ्चाक्षीरोषश्चाखः स्फुरदभयदलः शीलसम्पद प्रवालः । श्रद्धाम्मः परसेका द्विपुलकुल वलैश्वर्य सौन्दर्यभोगः, स्वर्गादिप्राप्तिपुष्पः शिवपदफलदः स्यात्तपः कल्पवृक्षः " ॥ ९५ ॥ " न नीचैर्जन्म स्यात् प्रभवति न रोगव्यतिकरो, नवाप्यज्ञानत्वं विलसति न दारिद्र्यललितम् । पराभूतिर्न स्यात्किमपि न दुरापं किल यतस्तदेवेष्टप्राप्तौ कुरुत निजशक्त्यापि सुतपः यथेष्टानां पारं भवति नहि लोके जनिमतां, तथा नानाssकारं प्रभवति तपो भिख करणात् । न यत्प्राप्तौ किंचित् सुलभमिह संसाधनमहो, तदेवेष्टप्राप्तौ कुरुत निजशक्स्याऽपि सुतपः जंतूनां तपसा नूनं जायन्ते सर्वसम्पदः । निःश्रेयसपदं चैव सतपः सर्वकामदम् " For Private And Personal Use Only ॥ ९६ ॥ ॥ ९७ ॥ ॥ ९८ ॥ Acharya Shri Kassagarsun Gyanmandir

Loading...

Page Navigation
1 ... 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256