Book Title: Tarangwati Katha
Author(s): Ajitsagarsuri
Publisher: Buddhisagarsuri Jain Gyanmandir

View full book text
Previous | Next

Page 221
________________ www.kobatrih.org इक्ष्वाकुराजवृषभो वृषभोपमो यः, चूडामणिनिजकुलोद्भवमानवानाम् । शौर्यादिसद्गुणकदम्पकराजमानो, लीलालसन्समभवदू वृषभः क्षितीशः ॥ २२३४॥ सुमङ्गला सुनन्दा च प्रिये तस्य वमूवतुः । तथाऽजापानका पुत्रा जजिरे भरतादयः ॥ २२३५ ॥ हिमाचलं समारम्य सागरान्तमहीपतिः । जन्ममृत्युविमुक्यर्थ स यदा त्यक्तवैभवः ॥ २२३६॥ तपस्तेपे तदैतस्य वृक्षस्याधः स्थितोऽमलम् । अनन्तं केवलज्ञानमक्षयं च समासदत ॥ २२३७॥ तेन स्थानमिदं पुण्यमुत्तमं चामवद् भुवि । अतएवाऽधुनाऽप्येतत् पूज्यते भावतो जनैः ॥ २२३८॥ तुङ्गेऽस्मिन देवभवने तस्यैवाऽदिजिनेशितुः । मूर्तिः प्रतिष्ठिता भव्या भवतारणनौरिव ॥ २२३९ ॥ निशम्यैवं मयाप्येतद् वृक्षस्य वन्दनं कृतम् । युगादिदेवमृति च प्राणमं स्तुतिपूर्वकम् ॥ २२४०।। प्रथमं पृथिवीपालं प्रथमं मुनिपुङ्गवम् । प्रथमं तीर्थकर्तारं जिनेन्द्र तं स्तवीम्यहम् ॥ २२४१॥ " त्रैलोक्यं सकलं त्रिकालविषयं सालोकमालोकितं, साक्षाद् येन यथा स्वयं करतले रेखात्रयं साङ्गुलि । रागद्वेषभयामयान्तकजरालोलत्वलोभादयो, नालं यत्पदलवनाय स महादेवो मया वन्द्यते । ॥२२४२ ॥ यः स्मर्यते सर्वमुनीन्द्रवृन्दर्यः स्तूयते सर्वनरामरेन्द्रैः । यो गीयते वेदपुराणशास्त्रैः स देवदेवो हृदये ममास्ताम्।। २२४३ ।। यो दर्शनज्ञानसुखस्वभावः समस्त संसारविकारबाह्यः । समाधिगम्यः परमात्मसंज्ञः स देवदेवो हृदये ममास्ताम्।। २२४४ ।। RRRRRRRRRRRRRRRRRRR) For Private And Personal Loe Only

Loading...

Page Navigation
1 ... 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256