SearchBrowseAboutContactDonate
Page Preview
Page 215
Loading...
Download File
Download File
Page Text
________________ ShriMahavir Jain ArachanaKendra Achanh sagan Gyaan अफ्रजम्मनः पुग्यतः स्मृतं किमपि दूषणं शेषतां गाम् । तदिह बन्धन जातमस्ति नौ करुणया प्रमो! तत्समुद्धर १ ॥२१६५॥ भवसमुद्धतेरीइनं च नो विषयवाञ्छपा वर्जितं मनः। अमृतपानमिच्छन्ति केन वै गरलपानमिच्छन्ति केपि न ॥ २१६६ ॥ त्वमसि कामदस्त्वां विना न मे, कथय वर्तते को जगवले । शरणवर्जितं नाथ ! तेन मां सपदि रक्षमा रक्ष मां प्रभो!२१६७ एतत्सकरुणाक्रन्दगीतश्रवणमात्रतः । हदि कारुणिका भावा जागृता मम सत्वरम् " ॥ २१६७॥ तदुदन्तश्रुतेर्जाता जातिस्मृतिरहो ! मम । स्वापराधं विदित्वैवं तस्मादुदारिताविमौ ॥ २१६८॥ सर्वेषामपि पापानां सहसा धपणाय च । स्वयं तस्माच मृत्वाऽपि रक्षणीयाविमो मया ॥ २१६९॥ मानुष्ये महान धर्मो नहि हेयः कदाचन । विवेके सति तत्यामो महागः कथ्यते बुधैः स्वस्वामिस्नेहतो वक्षो जथान पूचकार च । तेन कारास्थिताः सर्वा जीवने विरसा निजे ॥ २१७१॥ वनितास्तत्र संमिल्प दयावासितचेतसा । साकाङ्क्षा दमती प्रष्टुं तदुदन्तं प्रचक्रतुः ॥ २१७२॥ कस्मादागम्पते ? कुत्र गन्तुमीहा च वर्तते । तस्करकरसात कस्माजातौ कथय तं युवाम ॥ २१७३ ॥ साऽश्रुनेत्रावदद्योपिदस्मवृतान्तमादितः । श्रूयतां सावधानाभिर्दुःखदं शृण्वतामपि ॥२१७४।। चम्पान्तिकस्थितेऽरण्ये गङ्गातीरविभूषणे । गैरिकवणौ चक्राही स्नेहिनावाजस्व दम्पती ॥ २१७५।। परपा साकमहं मङ्गोपरि नैपुण्यतोऽतरम् । कल्लोला। शुशुमुस्तेन, सैकतेन युता इत्र ॥ २१७६।। BREBESBESEXXIXEEEEEREAKERA For Private And Personlige Only
SR No.008672
Book TitleTarangwati Katha
Original Sutra AuthorN/A
AuthorAjitsagarsuri
PublisherBuddhisagarsuri Jain Gyanmandir
Publication Year
Total Pages256
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy