Book Title: Taittiriya Samhita Part 01
Author(s): A Mahadev Shastri, K Rangacharya
Publisher: Government of Mysore

View full book text
Previous | Next

Page 10
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अनु. १.] भभास्करभाष्योपेता तस्मात्, प्रणम्य शिरसाऽऽचार्यान्बोधायनपुरस्सरान् । व्याख्यैषाऽध्वर्युवेदस्य यथाबुद्धि विधीयते ॥ अपि च, 'यो हवा अविदिताःयच्छन्दोदैवतब्राह्मणेन मन्त्रेण याजयति वाऽध्यापयति वा स्थाणुं वर्छति गत वा पद्यते प्र वा मीयते पापीयान्भवति यातयामान्यस्य छन्दासि भवन्ति अथ यो मन्त्रेमन्त्रे वेद स सर्वमायुरेति'* इत्यादिदर्शनात्प्रतिमन्त्रमृष्यादीनि ज्ञातव्यानि । अत्र मन्त्राणामृषिर्द्रष्टा । अक्षरसङ्ख्याविशेषश्छन्दः । मन्त्रवाच्योर्थो देवता । विनियोजकं ब्राह्मणम् । तत्रैकैव महती देवता अग्निवायुसूर्यरूपेण विभक्ता सर्वत्र ध्यातव्या ; तासां विभूतयः पृथिव्यन्तरिक्षद्युस्थानस्थाः अन्या अपि देवता इति नैरुक्ताः । ताश्च प्रतिमन्त्रं लिङ्गैर्विनियोगेन च गम्यन्ते च ज्ञायन्ते च । न तासां प्रथगभिधानाय प्रयत्स्यामः । ऋषयः प्रजापत्यादयः प्रतिकाण्डं भिद्यन्ते । ते च होमतर्पणाद्यर्थं च ज्ञातव्याः । तदाहुः अथ काण्डऋषीनेतानुदकाञ्जलिभिश्शुचिः । अव्यग्रस्तर्पयेन्नित्यमन्नैः पर्वाष्टमीषु च ॥ काण्डोपाकरणेष्वेतान्पुरस्तात्रादसस्पतेः । जुहुयात्काण्डसमाप्तौ च श्रुतिरेषा सनातनी** ॥ तत्र प्रजापतेर्नव काण्डानि -पौरोडाशिकं, याजमानं, होतारः, *आर्षे-१-१. +म-...वायुसूर्यादि. ग-अन्या देवता. तं-गम्यन्त एवेति न. बाग-प्रतिपर्वाष्टमीषु. **काण्डानुक्रमणी. २-१०.११. अत्र नाममात्रतः प्रदर्शितानि काण्डानि. विस्तरस्तु एतत्कोश एवानुबन्धरूपेण मुद्रितायां काण्डानुक्रमणिकायां द्रष्टव्यः For Private And Personal Use Only

Loading...

Page Navigation
1 ... 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 ... 402