Book Title: Taittiriya Samhita Part 01
Author(s): A Mahadev Shastri, K Rangacharya
Publisher: Government of Mysore

View full book text
Previous | Next

Page 11
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तैत्तिरीयसंहिता (का.१. प्र.१. इष्टि हौत्रं, चतुर्णां च ब्राह्मणानि, पितृमेधश्चेति । सोमस्य नव काण्डानि-अध्वरग्रहदाक्षिणानि, तेषां त्रयाणां ब्राह्मणमेकं, वानपेयः, तस्य च ब्राह्मणम्, सवाः, शुक्रीयं 'नमो वाचे' इत्यादिकं, तस्य च ब्राह्मणामिति । अथानेः सप्त काण्डानि-अनयाधेयं, पुनराधेयं, अनचुपस्थानं, अग्निः, तस्य च ब्राह्मणं 'सावित्राणि जुहोति' इत्यादि, तस्यैव द्वितीयं ब्राह्मणं ' यदेकेन' इत्यादि, अग्निहोत्रब्राह्मणमिति । अथ विश्वेषां देवानां षोडश काण्डानिराजसूयः, तस्य च ब्राह्मणं, काम्याः पशवः, काम्या इष्टयः, उपानुवाक्यं 'प्रजापतिरकामयत' इति प्रश्नपञ्चकं, याज्याः, अश्वमेधः, तस्य च ब्राह्मणं, सत्राणि, उपहोमाः, सूक्तानि, नक्षत्रेष्टयः, सौत्रामणिः, अच्छिद्राणि पशुहौत्रं, नरमेधः इति । सांहितीनामुपनिषदां साहित्य उपनिषद ऋषयः 'शं नो मित्रः इत्यादीनाम् । याज्ञिकीनामुपनिषदां याज्ञिक्यः 'अम्भस्यपारे । इत्यादीनाम् । वारुणीनां वारुणः ‘सह नाववतु इत्यादीनाम् । इत्येवं तित्तिरिशाखायां चतुश्चत्वारिंशत्काण्डानि । अथ काठके काण्डान्यष्टौ हव्यवाडादीनाम् । तत्र हव्यवाहः चत्वारि काण्डानि; सावित्रचित्यं, नाचिकेतचित्यं, चातुर्होत्रचित्यं वैश्वसृजचित्यमिति । अथारुणकेतुकचित्यस्यारुणाः काण्डर्षयः । अथ विश्वेषां देवानां द्वे काण्डे ; दिवश्श्येनेष्टयः 'तुभ्यम्' 'देवेभ्यः । इत्यनुवाको, अपामेष्टयः 'तपसा' 'देवेभ्यः' इत्यनुवाकौ । अथ स्वाध्यायब्राह्मणस्य ब्रह्मा स्वयम्भूः ऋषिः । अथैकाग्निकाण्डं 'प्रसुग्मन्ता 10 इति प्रश्नद्वयं वैश्वदेवाग्निमन्त्राश्च,1 तस्य विश्वेदेवा ऋषयः ॥ क-होत्रारब्धेष्टिः . तै. आ. ४-१. सं. ५-१-१. सं. ५-३-१. सं. ३-१-१. तै. उ.१-१. . उ. ४-१. 8 तै. उ. २-१. ब्रा. ३-१२-१, २,३,४. ___10ते. मं. १-१. 11प्रसुग्मन्तति अग्निकाण्डस्य वैश्वदेवादिमन्त्राश्च. 12एकाग्निको विधिः काण्डं वैश्वदेवामिति स्थितिः, इति वचनातू [इत्यधिकं ग पुस्तके]. For Private And Personal Use Only

Loading...

Page Navigation
1 ... 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 ... 402