Book Title: Taittiriya Samhita Part 01
Author(s): A Mahadev Shastri, K Rangacharya
Publisher: Government of Mysore

View full book text
Previous | Next

Page 15
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org 8 Acharya Shri Kailassagarsuri Gyanmandir तैत्तिरीय संहिता प्र॒जाव॑तीरनम॒वा अ॑य॒क्ष्मा मा व॑स्स्ते॒न ई॑शत योदात्तत्वम् । इह तु आष्टमिकं ' आमन्त्रितस्य च ' इति सर्वानुदात्तत्वम् । देवस्येन्द्रस्य भागं सान्नाय्यलक्षणं यूयमाप्यायध्वं आप्याययत । अन्तर्भावितण्यर्थात् प्यायतेर्ण्यन्ताद्वा लोट्, 'बहुलमन्यत्रापि संज्ञाछन्दसोः' इति णेर्लुक् । अण्यन्तस्याचित्तवत्कर्तृकात्* ' अणावकर्मकात् ' इति परस्मैपदाभावः । ' ऐन्द्रं दध्यमावास्यायां इति सान्नाय्यस्यैन्द्रत्वम् । 'वत्सेभ्यश्च वै ' t इत्यादि ब्राह्मणम् । ऊर्जस्वत्वादिगुणयुक्ता यूयमाप्यायध्वम् । यद्वा — ऊर्जस्वत्वादिगुणयुक्तान् युष्मान् स्तेनो मा ईशतेति । शेषत्वविवक्षायां ' अधीगर्थ' इति षष्ठ्यभावः । प्रथमपक्षे ' वा छन्दसि' इति पूर्वसवर्णदीर्घः । ऊर्जस्वत्यो बलवत्यः, बहुरसा वा । पयस्वत्यः बहुपयस्काः । असुन्नन्तस्याद्युदात्तत्वम् । मतुपोरनुदात्तत्वम् । प्रजावत्यः बह्वपत्याः । ' उपसर्गे च संज्ञायाम्' इति उप्रत्ययस्योदा - तत्वात् कृदुत्तरपदप्रकृतिस्वरेण प्रजाशब्दोन्तोदात्तः । अनमीवाः अरोगाः । 'शेवयह्नजिह्वाग्रीवाप्वामीवा: '९ इति वन्प्रत्ययान्तो मिनोतेरङ्घर्वस्यामीवशब्दो निपातितः । अमीवा उदरव्याधिः, तद्रहिता अनमीवाः । अयक्ष्माः, यक्ष्मा व्याधिः तद्रहिताः । ष्टथगुपादानं प्राधान्यात् । 'डाबुभाभ्याम्' इति डापि उभयत्र 'नञ्सुभ्याम् ' इत्युच्यमानं उत्तरपदान्तोदात्तत्वम् । स्तेनः । स्तेन चौर्ये, इति चुरादेचू । अपहर्ता । मा युष्माकं ईशत ईशिष्ट, स्वषशाः युष्मान् मा कार्षीत् । व्यत्ययेन च्लेरङादेशः । किञ्च – अघशंसोपि युष्मान् का. १. प्र. १. + तै. सं. २-५-४. *अचित्तवत्कर्तृकत्वादिति युक्तः पाठः. बा.३-२०१ भट्टोजी दीक्षितस्तु — 'श्रीवाप्यमीवा:' इति पठित्वा 'मीवा उदरक्रिमि : ' इति व्याचख्यौ. उज्ज्वलदत्तोप्येवम् तदनेन भाष्येण विरुद्धम्. For Private And Personal Use Only

Loading...

Page Navigation
1 ... 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 ... 402