________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
8
Acharya Shri Kailassagarsuri Gyanmandir
तैत्तिरीय संहिता
प्र॒जाव॑तीरनम॒वा अ॑य॒क्ष्मा मा व॑स्स्ते॒न ई॑शत
योदात्तत्वम् । इह तु आष्टमिकं ' आमन्त्रितस्य च ' इति सर्वानुदात्तत्वम् । देवस्येन्द्रस्य भागं सान्नाय्यलक्षणं यूयमाप्यायध्वं आप्याययत । अन्तर्भावितण्यर्थात् प्यायतेर्ण्यन्ताद्वा लोट्, 'बहुलमन्यत्रापि संज्ञाछन्दसोः' इति णेर्लुक् । अण्यन्तस्याचित्तवत्कर्तृकात्* ' अणावकर्मकात् ' इति परस्मैपदाभावः । ' ऐन्द्रं दध्यमावास्यायां इति सान्नाय्यस्यैन्द्रत्वम् । 'वत्सेभ्यश्च वै ' t इत्यादि ब्राह्मणम् । ऊर्जस्वत्वादिगुणयुक्ता यूयमाप्यायध्वम् । यद्वा — ऊर्जस्वत्वादिगुणयुक्तान् युष्मान् स्तेनो मा ईशतेति । शेषत्वविवक्षायां ' अधीगर्थ' इति षष्ठ्यभावः । प्रथमपक्षे ' वा छन्दसि' इति पूर्वसवर्णदीर्घः । ऊर्जस्वत्यो बलवत्यः, बहुरसा वा । पयस्वत्यः बहुपयस्काः । असुन्नन्तस्याद्युदात्तत्वम् । मतुपोरनुदात्तत्वम् । प्रजावत्यः बह्वपत्याः । ' उपसर्गे च संज्ञायाम्' इति उप्रत्ययस्योदा - तत्वात् कृदुत्तरपदप्रकृतिस्वरेण प्रजाशब्दोन्तोदात्तः । अनमीवाः अरोगाः । 'शेवयह्नजिह्वाग्रीवाप्वामीवा: '९ इति वन्प्रत्ययान्तो मिनोतेरङ्घर्वस्यामीवशब्दो निपातितः । अमीवा उदरव्याधिः, तद्रहिता अनमीवाः । अयक्ष्माः, यक्ष्मा व्याधिः तद्रहिताः । ष्टथगुपादानं प्राधान्यात् । 'डाबुभाभ्याम्' इति डापि उभयत्र 'नञ्सुभ्याम् ' इत्युच्यमानं उत्तरपदान्तोदात्तत्वम् । स्तेनः । स्तेन चौर्ये, इति चुरादेचू । अपहर्ता । मा युष्माकं ईशत ईशिष्ट, स्वषशाः युष्मान् मा कार्षीत् । व्यत्ययेन च्लेरङादेशः । किञ्च – अघशंसोपि युष्मान्
का. १. प्र. १.
+ तै. सं. २-५-४.
*अचित्तवत्कर्तृकत्वादिति युक्तः पाठः. बा.३-२०१ भट्टोजी दीक्षितस्तु — 'श्रीवाप्यमीवा:' इति पठित्वा 'मीवा उदरक्रिमि : ' इति व्याचख्यौ. उज्ज्वलदत्तोप्येवम् तदनेन भाष्येण विरुद्धम्.
For Private And Personal Use Only