________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनु. १.]
भट्टभास्करभाष्योपेता
'आ प्यायध्वमनिया देवभागमूर्जस्वतीः पयस्वतीः डायत्री जागतगायत्रपादत्वादिति ॥ षू प्रेरणे । देवस्सविता सर्वस्य प्रेरकः, येन विना तृणाग्रमपि न चलति, स युष्मान् प्रार्पयतु प्रस्थापयतु । अर्तेी पुगागमः । किमर्थम्? श्वष्ठतमाय कर्मणे यज्ञाय । 'यज्ञो हि श्रेष्ठतमं कर्म ' । प्रकर्षवतामपि पुनःप्रकर्षविवक्षायां द्वितीय आतिशायनिको भवत्येव । तृणादिभक्षणेन सान्नाय्यनिष्पत्त्यर्थत्वाद्यज्ञार्थं प्रेरणम् ॥
"अथ प्रस्थाप्यमाना गा एव प्रार्थयते द्वितीयया-इयं च भववसुरुद्रेशपादत्वात् मध्येज्योतिस्त्रिष्टुप् ॥ हे अनियाः गावः अहननार्हाः । अहननं अन्नः 'घअर्थे कविधानं स्थानापाव्यधिहनियुध्यर्थम् ' इति हन्तेः कः । अन्नमर्हन्तीति 'छन्दसि च' इति घप्रत्ययः । यहा—' अनयादयश्च ' इति यक्प्रत्ययान्तो निपात्यते । इकारश्चान्दसः । तदा गवामियं संज्ञा । सर्वदा प्रत्य
*म-...पादत्वा१यक्षरोनत्वाचे.
तृतीयं द्विपाजागतगायत्राभ्याम् ' (३-१६) इति पिङ्गळसूत्रम् । अत्र आद्यपादे उत्तरपादगतवर्णद्वयसङ्कलनया जागतत्वमवगन्तव्यम् । षडक्षरस्यापि गायवत्वं न हीयत इति च बोध्यम् ॥
बा. ३-२-१. 8 वसुशब्दः अष्टसु, भवरुद्रेशशब्दाश्चैकादशसु प्रसिद्धाः । 'मध्येज्योतिर्मध्यमेन' (३-५३) इति पिङ्गळसूत्रम् । मध्यमेन त्रैष्टुभेन पादेन अन्यैश्च चतुर्भिः पादैर्युतं छन्दः मध्येज्योतिमि । हलायुधस्तु-अत्रान्येषां चतुर्णा पादानां गायत्रतामभिप्रेति । तदेतद्विरुद्धं बोध्यम् ॥
अत्र सर्वेष्वेव कोशेषु 'घप्रत्ययः' इत्येव वर्तते । 'छन्दसि च' (५-१-६८) ईत सूत्रं यत्प्रत्ययविधायकमेव । घप्रत्ययविधायकं च नान्यदीदृशं सूत्रमुपलभ्यते। 'छन्दसि घस्' (५-१-१०६) इति सूत्रं च ऋतुशब्दादेव प्राप्तार्थे घस्विधायकम् । तस्मादत्र 'यत्प्रत्ययः' इत्येव साधु ॥
For Private And Personal Use Only