________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनु. १.]
भभास्करभाष्योपेता
तस्मात्,
प्रणम्य शिरसाऽऽचार्यान्बोधायनपुरस्सरान् ।
व्याख्यैषाऽध्वर्युवेदस्य यथाबुद्धि विधीयते ॥ अपि च,
'यो हवा अविदिताःयच्छन्दोदैवतब्राह्मणेन मन्त्रेण याजयति वाऽध्यापयति वा स्थाणुं वर्छति गत वा पद्यते प्र वा मीयते पापीयान्भवति यातयामान्यस्य छन्दासि भवन्ति अथ यो मन्त्रेमन्त्रे वेद स सर्वमायुरेति'* इत्यादिदर्शनात्प्रतिमन्त्रमृष्यादीनि ज्ञातव्यानि । अत्र मन्त्राणामृषिर्द्रष्टा । अक्षरसङ्ख्याविशेषश्छन्दः । मन्त्रवाच्योर्थो देवता । विनियोजकं ब्राह्मणम् । तत्रैकैव महती देवता अग्निवायुसूर्यरूपेण विभक्ता सर्वत्र ध्यातव्या ; तासां विभूतयः पृथिव्यन्तरिक्षद्युस्थानस्थाः अन्या अपि देवता इति नैरुक्ताः । ताश्च प्रतिमन्त्रं लिङ्गैर्विनियोगेन च गम्यन्ते च ज्ञायन्ते च । न तासां प्रथगभिधानाय प्रयत्स्यामः । ऋषयः प्रजापत्यादयः प्रतिकाण्डं भिद्यन्ते । ते च होमतर्पणाद्यर्थं च ज्ञातव्याः । तदाहुः
अथ काण्डऋषीनेतानुदकाञ्जलिभिश्शुचिः । अव्यग्रस्तर्पयेन्नित्यमन्नैः पर्वाष्टमीषु च ॥ काण्डोपाकरणेष्वेतान्पुरस्तात्रादसस्पतेः । जुहुयात्काण्डसमाप्तौ च श्रुतिरेषा सनातनी** ॥ तत्र प्रजापतेर्नव काण्डानि -पौरोडाशिकं, याजमानं, होतारः, *आर्षे-१-१.
+म-...वायुसूर्यादि. ग-अन्या देवता.
तं-गम्यन्त एवेति न. बाग-प्रतिपर्वाष्टमीषु. **काण्डानुक्रमणी. २-१०.११. अत्र नाममात्रतः प्रदर्शितानि काण्डानि. विस्तरस्तु एतत्कोश एवानुबन्धरूपेण मुद्रितायां काण्डानुक्रमणिकायां द्रष्टव्यः
For Private And Personal Use Only