________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
तैत्तिरीयसंहिता
का.१. प्र.१.
'स्वाध्यायोऽध्येतव्यः ।1 इति विधिना चार्थज्ञानपर्यन्तमध्ययनं विधीयत इति न्यायसिद्धम् । श्रूयते च, 'यदेव विद्यया करोति....तदेव वीर्यवत्तरं भवति य उ चैनमेवं वेद'3 इति च । मन्त्राः पुनरविदितार्थाः नानुष्ठेयार्थप्रकाशनसमर्थाः । तस्मात्प्रतिपन्नवेदार्थोऽनुष्ठाताऽभिलषितानि कर्मफलानि प्राप्नोति, न च प्रत्यवैति, इति वेदार्थः प्रतिपत्तव्यः । अत्र मनुः
सैनापत्यं च राज्यं च वेदविद्ब्राह्मणोऽर्हति । इति. अत्र च,
इतिहासपुराणज्ञः पदवाक्यप्रमाणवित् ।
अर्थो पकारवेदी च वेदार्थ ज्ञातुमर्हति ॥ इति, अनेवंविधा अल्पश्रुता नाधिक्रियन्ते ।
मन्त्राणां विनियोगमक्षरविधि 'छन्दांस्य॒षीन्दवताः काण्डर्षीन्निगमान्निरुक्तमितिहासाख्यायिका ब्राह्मणम् । वाक्यार्थस्वररूपवृत्तिमनन न्यायांश्च वक्ष्ये पृथक् शब्दानामनसूयवस्सुमनसश्शृण्वन्तु जिज्ञासवः ॥ एतैष्षोडशभिस्सहैव विदितः पुंसां भवेच्छ्रेयसे वेदार्थस्सषडङ्ग एव खलु सोऽध्येयश्श्रुतौ चोद्यते । वाक्याथै कपराण्यधीत्य च भवस्वाम्यादि भाष्याण्यतो भाष्यं सर्वपथीनमेतदधुना सर्वीय मारभ्यते ॥
1ते. आ. २-१५.
छा. उ. १-१-१०. तै. ब्रा. ३-८-१८-३-९-२०.-३-११-९-इत्यादिप्रदेशेषु. *क-वेदार्थान प्रतिपत्तव्यः.[ वेदोऽर्थाच्च प्रतिपत्तव्यः ?] 5सेनापत्यं च राज्यं च दण्डनेतृत्वमेव च । सर्वलोकाधिपत्यं च वेदशास्त्रवि.
दर्हति ॥ (मनु. १२-१००). Bम-अङ्गो तं-मागमविधि.
क-मर्थमनने. एक-ण्यधीत्य मम योसर्वाणि. 10-न स्वीय.
For Private And Personal Use Only