Book Title: Suktavali Author(s): Nilanjana Publisher: ZZ_Anusandhan View full book textPage 9
________________ 100 ॥३४।। ||३५|| ॥३६।। 11३७॥ सभा केयं कोऽहं क इह समय: संप्रति वचः प्रियं किं सर्वेषां सफलमिदमाहोस्विदफलम् । इति प्रेक्षापूर्वं निगदति न यश्चारुवचनं स यद्वादी मूढो व्रजति निपुणं हास्यपदवीम् माता पिता कलाचार्य एतेषां ज्ञातयस्तथा । वृद्धा धर्मोपदेष्टारो गुरुवर्गः सतां मतः पूजनं चाऽस्य विज्ञेयं त्रिसन्ध्यं नमनक्रिया । तस्याऽनवसरेऽप्युच्चैश्चेतस्यारोपितस्य तु अल्पस्थानादियोगश्च तदन्ते निभृतासनम् । नामग्रहश्च नाऽस्थाने नाऽवर्ण श्रवणं क्वचित् साराणां च यथाशक्ति वस्त्रादीनां निवेदनम् । परलोकक्रियाणां च कारणं तेन सर्वदा त्यागश्च तदनिष्टानां तदिष्टेषु प्रवर्तनम् । औचित्येन त्विदं ज्ञेयमाहुर्धर्माद्यपीडया तदासनाद्यभोगश्च तीर्थे तद्वित्तयोजनम् । तद्विम्बन्यास--संस्कार ऊर्ध्वदेहक्रिया परा समुचितधर्मसमाहितमनुचितपरिहारपूतमुचितज्ञम् । सविनयमविप्रतारकमिति धर्मार्थी गुरुं वदति विना गुरुभ्यो गुणनीरधिभ्यो जानाति धर्मं न विचक्षणोऽपि । निरीक्षते कुत्र पदार्थसार्थं विना प्रकाशं शुभलोचनोऽपि ||३८॥ ।।३९|| ॥४०॥ ॥४१॥ ॥४२॥ Jain Education International For Private & Personal Use Only www.jainelibrary.orgPage Navigation
1 ... 7 8 9 10 11 12 13 14