Book Title: Suktavali
Author(s): Nilanjana
Publisher: ZZ_Anusandhan

View full book text
Previous | Next

Page 7
________________ 98 ॥२४॥ गुणवानिति प्रसिद्धः संनिहितैरेव भवति गुणवद्भिः ख्यातो मधुर्जगत्यपि सुमनोभिः सुरभिभिः सुरभिः ॥२२।। शिष्टाचार इति (इतीव) विघ्नविहिते शास्तुः प्रमाणीकृतं शास्त्रं स्यादिति संनिरोध इति वा विघ्नस्य संपद्यताम् । शास्त्रादौ कृतबुद्धयो विदधते येनेष्टदेवस्तुति तेनेत्थं भगवानपि प्रववृते प्रज्ञाधनोऽयं कविः ॥२३॥ अर्हन् हरो हरिरनादिरनाहतश्च बुद्धो बुधो निरवधिविधिरव्ययश्च । इत्याद्यनेकविधनिर्मलनामधेयं शुद्धाशयः परमहंसमहं नमामि तत्पाण्डित्यं न पतति पुनर्येन संसारचक्रे सा संप्रीतिर्न पतति पुनर्या कृते वाऽकृते वा । ते किं भोगा रतिषु विदुषां ये न वाच्या परेषां तत्कर्तव्यं किमिह बहुना येन भूयो न भूयः तथ्ये धर्मे ध्वस्तहिंसा[प्रबन्धे देवे रागद्वेषमोहादिमुक्ते। साधौ सर्वग्रन्थसंदर्भहीने संवेगोऽसौ निश्चलो योऽनुरागः ॥२६॥ अजानन् दाहात्म्यं पतति शलभस्तत्र दहने न मीनोऽपि ज्ञात्वा बत बडिशमश्नाति पिशितम् । विजानन्तो ह्येते वयमिह विपज्जालजटिलान् न मुञ्चामः कामानहह गहनो मोहमहिमा ॥२७॥ __॥२५॥ ॥२५॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 5 6 7 8 9 10 11 12 13 14