Book Title: Suktavali
Author(s): Nilanjana
Publisher: ZZ_Anusandhan

View full book text
Previous | Next

Page 8
________________ 99 यत्कृष्णानि दिशां मुखानि तनुषे यद्वाऽर्जसि प्रोषितस्त्रीचेतांसि दधासि यद्भयभरं भूयस्तडिद्विभ्रमैः । एतद्वारिद ! बाह्यमेव भवतो मध्ये तु नैसर्गिकं तत्पुष्यत्यमृतं यदत्र जगतां जीवातवे जायते नमस्यामो देवाननु हतविधेस्तेऽपि वशगाः विधिर्वन्द्यः सोऽपि प्रतिनियतकर्मैकफलप्रदः । फलं कर्मायत्तं यदि किममरैः किं च विधिना नमः सत्कर्मेभ्यो विधिरपि न येभ्यः प्रभवति धर्मोऽयं धनवल्लभेषु धनदः कामार्थिनां कामदः सौभाग्यार्थिषु तत्प्रदः किमपरं पुत्रार्थिनां पुत्रदः । राज्यार्थिष्वपि राज्यदः किमथवा नानाविकल्पैर्नृणां तत्किं यत्र ददाति किं च तनुते स्वर्गापवर्गावपि न राज्ञामाज्ञाऽत्र प्रभवति परत्र प्रतिकृतौ न पुत्रो मित्रं वा भवति न कलत्रं न सुजनः | न पतिर्वित्तं वा बहुभिरथवा किं प्रलपितैः सहाय: संसारे [ विमल ? ] जिनधर्म: परमिह मार्गे लोकः कति [पय] पदक्षेपसाध्ये पुरस्तात् निर्वाहो मे कथमिति भवेच्चिन्तया व्यग्रचित्तः । संसाराख्ये पुनरिह पथि प्रत्यहं लङ्घनीये निःसीमेऽस्मिन् किमिति कुधियः सुस्थिताः सञ्चरन्ति ||३२|| भवति सुभगमूर्तिः खेचरश्चक्रवर्ती धनपतिरवनीशो वासुदेवो विपश्चित् । किमिह बहुभिरुक्तैर्लभ्यते सर्वमेको निरवधिभववाद्ध दुर्लभो जैनधर्मः Jain Education International For Private & Personal Use Only ॥२८॥ ॥२९॥ ||३०|| ॥३१॥ ||३३|| www.jainelibrary.org

Loading...

Page Navigation
1 ... 6 7 8 9 10 11 12 13 14