Book Title: Sudarshan Shreshthi Charitra
Author(s): Shubhshil Gani
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 9
________________ RSA सुदर्शन मधुकरा निजगुंजारवर्जनमनांसि मोदयामासुः.अथोद्यानपालनिवेदितां तामुपवनशाभां परिभोक्तुं पृथ्वीपचरित्र तिरपि पौरपरिवारपरिवृतो वनमध्ये यचौ. अभयामहारोड्यपि तया पुरोहितपन्या कपिलया सह याना // 8 // रूढा नपादिपरिवारेण सह तत्रोद्याने गंतं प्रवृत्ता. तदातस्य सदर्शनश्रेष्ठिनःप्रिया मनोरमापि निजषड-3 // 8 // पुत्रपरिवारयुता रथारूढा तस्मिन् वसंतोत्सवे वनंप्रति गमनं चकार. सुदर्शनोऽपि निजपरिजनमित्रादि-15 परिवारयुतोऽश्वारूढस्तत्र चलतिस्म. ततो मार्गे पुत्रगणोपेतां रथारूढां सुदर्शनपत्नी तां मनोरमां निरी-81 क्ष्य कपिलाऽभयां राज्ञीप्रति प्राह, हे सखि ! कस्येयं पत्नी ? कस्य चायं पुत्रपरिवारः? तत् श्रुत्वाऽभयया | प्रोक्तं, अरे! मुग्धे ! किं त्वमेनां ललनां नोपलक्षसि ? इयं हि तव भर्तुः परमसुहृदः सुदर्शनश्रेष्ठिनो मनोरमाभिधा प्रियास्ति, एषः सर्वः पुत्रपरिवारोऽपि तस्यैव विद्यते. तत् श्रुत्वाश्चर्यनिमग्ना कपिला क्षणं / तृष्णीभूयावदत्, सखि ! स सुदर्शनस्तु नपुंसकोऽस्ति, मयेषः पराक्षितोस्ति, इत्युक्त्वा तया स्त्रीस्वभा. वतो गुप्तोऽपि सकलो निजवृत्तांतस्तस्यै स्वप्रियसख्यै अभयायै कथितः. तत् श्रुत्वा सहास्याऽभया दत्त| ताला तामवादत्, अरे ! मुग्धे ! त्वं तेन धृष्टेन वंचिता, अरेरे! हस्तागतोपि स वेहधारी कामदेवस्त्वया | M AC.Gunratnasuri M.S. Jun Gun Aaradt

Loading...

Page Navigation
1 ... 7 8 9 10 11 12 13 14 15