Page #1
--------------------------------------------------------------------------
________________ नं.२२८ pearesISTESemesterEEEEEES // श्रीजिनाय नमः // // श्री चारित्रविजयगुरुभ्यो नमः // Serving Jin Shasan 050365 gyanmandir@kobatirth.org ___ // श्रीसुदर्शनश्रेष्ठिचरित्रं // (कर्ता-श्रीशुभशीलगणी) - (द्वितीयावृत्तिः) छपावी प्रसिद्ध करनार-पण्डित हीरालाल हंसराज-(जामनगरवाळा) संवत् 1990 किंमत रु. 0-8-0 सने 1934 श्रीजैनभास्करोदय मिन्टिग प्रेसमां छाप्यु-जामनगर. SSESSIESED न.बी. केल्लासभागा सारि ज्ञान मंदिर की अशाची जन बाराधना कन्द्र, कोषा SSSSSSSSSIEEESIBIDIEOS . .PP.AC.GunratnasuriM.S. Jun Gun Aaradhak Trust
Page #2
--------------------------------------------------------------------------
________________ मुदर्शन चरित्रं // 1 // xni.22 ॥श्रीजिनाय नमः॥ // श्रीचारित्रविजयमुरुभ्यो नमः // // अथ श्रीसुदर्शनश्रेष्ठिचरित्रं प्रारभ्यते // . (कर्ता-श्रीशुभशीलगणी) - -warra - ... (द्वितीयावृत्तिः) छपावी प्रसिद्ध करनार-पंडित श्रावक हीरालाल हंसराज-(जामनगरवाळा) पालयन् दर्शनं शुद्धं / शीलं च मुक्तिसौख्यदं // मुनिं गच्छति भव्यांगी। सुदर्शन इवाचिरात् on 1 // तथाहि-अस्मिन्नेव जंबूद्वीपे दक्षीणदिग्विभूषणे भरतखंडे चंपाभिधा पुरी वर्तते. तत्र पुर्यामरि सिंहभूपपुत्रो दधिवाहनाख्यो राजा न्यायपुरस्सरं निजप्रजां पालयामास, तेन नृपेण निजकलाप्रयासेना। नेकभूपसभा मध्ये राधावेधं विधाय अभयाभिधा राज्ञी परिणीतामृत्. तत्रैव पुर्यामेकोऽहंदासाभिधः श्रेष्ठी / परिवसतिस्म, तस्य गृहे संख्यातीतं द्रव्यं वर्तते, तेन लोकास्तं शंक्रनिधानपतिं कुबेरमेव कथयंति. तस्य / नबी केनाममागर सरि हान बदिर श्री महावीर जैन आराधमा कना, कोजा C.Gunratnasuri M.S. Jun Gun Aaradha
Page #3
--------------------------------------------------------------------------
________________ L चरित्र मुदर्शन श्रेष्ठिनश्चाहदास्यभिधा पत्नी वर्तते, सा चातीवरूपलावण्यालंकृता देवांगनेव परिभाति. एवं तो द्वावपि / / मूल / दंपती परमसुखलीनो जैनधर्मतत्परौ नित्यं जिनपूजागुरुवंदनसुपात्रदानादिधर्मकार्याणि कुर्वतो निजसमयं // 2 // गमयतःस्मः एवं परमसुखान्यनुभवंत्यास्तस्या अहंद्दास्याः कियत्समयानंतरं गर्भे शुभस्वप्नसूचितः कोऽपि // 2 // पुण्यशाली जीवः समुत्पन्नः. तस्य गर्भस्य प्रभावेण तस्याः शुभदोहदाः समुत्पन्नाः तेन सा सर्वदा स-3 15/ विशेष श्रीवीतरागपूजनगुरुवंदनसुपात्रदानादि कर्तु प्रवृत्ता.क्रमेण तया गर्भवत्याऽर्हदास्या शुभसमये ए: 18 को महातेजस्वी चंद्र इवाहादप्रदः सोम्यमूर्ति सुतः प्रसूतः, तजन्मप्रमुदितः श्रेष्ठी विविधदानैर्याचकसः | मूहान् प्रीणयामास, पौरवालकांश्च मिष्टान्नदानादिना संतोषयमास, प्रतिजिनमंदिरं जिनप्रतिमानां स्नानादिमहोत्सवपूर्वक पूजां कारयामास, साधर्मिकांश्च वस्त्रपात्रादिप्रभावनाभिराहादयामास. ततः शु.... भदिवसे सकलकुटुंबसाक्षिकं तस्य तेजस्विनः पुत्रस्य सुदर्शन इतिनाम श्रेष्ठिना विहितं. क्रमेण वृद्धि प्राप्नुवन् स सुदर्शनकुमारो बालक्रीडां कुर्वन्, प्रस्खलन्. जल्पंश्च निजपितरौ प्रमोदयामास. एवं वाध्यकालमुल्लंधितः स श्रेष्ठिना कलाभ्यसकृते पाठशालायां प्रेषितः. तत्राप्यध्यापकं प्रमोदयन् स्वल्पेनैव ace SPS Jun Gun Aaradha
Page #4
--------------------------------------------------------------------------
________________ सुदर्शन चरित्रं मूल 3 प्रयासेन स निखिलकलाकलापकलितो जज्ञे. ततोऽसौ निजमातापित्रोराज्ञयोपाश्रये गत्वा विनयेन जै- नमुनिगणेभ्यः शास्त्राभ्यासं कर्तु प्रवृत्तः, क्रमेण च स निखिलशास्त्राब्धिपारंगतो बभूव, यत्तः-रुपयो- वनसंपन्ना / विशालकुलसंभवाः // विद्याहिना न शोभते / निर्मधा इव किंशुकाः // 1 // पंडितेषु गुणाः सर्वे / मुर्खे दोषाश्च केवलाः // तस्मान्मूर्खसहस्रेभ्यः / प्रज्ञ एकः किलोत्तमः // 2 // तत कमेण संप्राप्त-15 यौवनः स सुदर्शनकुमारो निजरूपलावण्यातिशयेन मदनबाणापहतनां नगरस्त्रीणां मनास्यांदोलयामास.8 ततोऽर्हदासः श्रेष्ठी तं निजपुत्रं सुदर्शनं यौवनोन्मुखं संभाव्य तद्विवाहकरणोत्सुको जज्ञे. ततस्तेन रूपः / / हा लावण्यादिवर्यगुणोपेतया मनोरमाख्यया महेभ्यपुत्र्या सह तस्य निजपुत्रस्य महोत्सवपूर्वकं विवाहो वि. है। हितः. तया पल्या समं विविधसुखान्यनुभवन् स सुदर्शनोऽपि जैनधर्मदृढमानसो नित्यं शुद्धं सम्यक्त्वं पालयति. यतः-मुलं बोधिगुमस्यैतद् / द्वारं पुण्यपुरस्य च // पीठं निर्वाणहय॑स्य / निधानं सर्वसंपदा म॥१॥ गुणानामेव ह्याधारो। रत्नानामिव सागरः // पात्रं चारित्रवित्तस्य / सम्यक्त्वं श्लाध्यते न कैः / // 2 // ततः कियत्कालानंतरं सोऽहंदासः श्रेष्ठी तं निजपुत्र सुदर्शनं सर्वगुणसंपन्नं विज्ञाय निश्चिंतो नि-12 Jun Gun Aaraules KOTAc.Gunratnasuri M.S. TOL . .... ....
Page #5
--------------------------------------------------------------------------
________________ मूल सुदर्शन खिलं गृहभारं तस्मै समर्प्य स्वयं सद्गुरुसंनिधौ संयम जग्राह. अथ स सुदर्शनश्रेष्ठ्यपि निजनिर्मलगु- चरित्रं जणगणेलोंकान् प्रीणयन् निजपितुरपि सविशेषं राजमान्यो बभूव. यतः-कुंभः परिमितमंतः / पिबति पयः // 4 // कुंभसंभवोंऽभोधि // अतिरिच्यते सुजन्मा / कश्चिजनकान्निजेन चरितेन // 1 // क्रमेण तस्य सुदर्शन-18 श्रेष्ठिन एकेन कपिलाभिधेन द्विजेन सह परमं सौहार्द बभूव. स च द्विजो वेदादिशास्त्रपारंगतो नृपेण / भृशं सन्मानितः नगरपुरोधा अभूत्. स च पुरोधास्तस्य सुदर्शनश्रेष्ठिनो गुणगणाकृष्ट इव नित्यं तत्पावें || एव स्थितो विशेषेण प्रायो निजसमयं झानगोष्ठ्या निर्गमयति. एवं निजस्वामिनो गृहतो बहिरेव विशे६ स्थिति विज्ञाय तस्य प्रिया कपिलकदा तं पप्रच्छ, स्वामिन् ! सर्वमपि दिनं कुत्र स्थिता यूयं निर्गमयथ ? तत् श्रुत्वा कपिलेन प्रोक्तं, हे प्रिये ! अहं नित्यं प्रायो मदीयसुहृदुत्तमस्य सुदर्शनश्रेष्ठिनोऽग्रे स्थितो. ज्ञानगोष्ठ्या निजसमयं निर्गमयामि. तदा कपिलया पृष्टं, स्वामिन् ! कोऽसौ गुणगणालयः सुदर्शनः श्रेष्ठी? येन सह भवतामीदृशी मैत्री जातास्ति ? तत् श्रुत्वा स मुग्धः कपिलद्विजोऽवदत्, हे प्रिये! किं त्वयां स सुदर्शनः श्रेष्ठी ज्ञातो वा दृष्टो नास्ति ? स तु रूपेण कंदर्पमपि जयति, बुध्ध्या वाचस्पति natas Jun Gun Aaradh
Page #6
--------------------------------------------------------------------------
________________ मुदर्शन / मपि पराकरोति, तेजसा सूर्यमपि तिरस्करोति, शांतस्वभावेन चंद्रमपि लजयति, विशेषतः किं वच्मि? 8 चरित्रं निजशीलगुणेन स सर्वसजनशिरोमणिरस्ति. एवं विधात्रा कस्मिंश्चिन्निवृतिभाजि दिने स सर्वगुणसंपन्नो, निर्मितोऽस्ति. एवं तद्गुणगणश्रवणेनाविर्भूतमदनाभिलाषापि सा. कपिला निजस्त्रोचरित्रचातुर्येण ताम भिलाषां शमयंती निजस्वामिनं प्रोवाच. भो स्वामिन् ! एवं गुणगणालंकृतस्य सज्जनोत्तमस्य तस्य सु.। 18| दर्शनश्रेष्ठिनो भवतां मैत्री खलु प्रशस्यैव. इत्युक्त्वा सा गृहकार्येषु प्रवृत्ता, परं तस्याश्चित्तं तस्य सुदर्श-5 नश्रेष्ठिनः संगप्राप्त्यर्थ मदनसायकबागप्रहारैः सविशेष विह्वलीभृतं गृहकार्येषु न लगति, यतः-स्मि तेन भावेन मदेन लजया / पराङ्मुखरर्धकटाक्षवीक्षितैः // वचोभिरीाकलहेन लीलया / स्वानंगताहै माविर्भावयंति याः // 1 // एवं सुदर्शनश्रेष्ठिसंग ध्यायत्यां तस्यामन्येयुः कपिलः कस्मैचित्कार्याय भूपति प्रेषितो ग्रामांतरं गतः, अथ लब्धप्रस्तावा सा कपिला निजकुबुद्धिप्रेरिता सुदर्शनश्रेष्ठिनों गृहे गत्वा त| दो प्रोवाच, भो सुदर्शन / त्वदीयः सुहृदय ज्वरेण पीडितोऽस्ति, नेन विह्वलीभृतमानसः स त्वां निजPI परमसुहृदं निलितुमिच्छति, तवागमनेन तस्य हृदि परमा शांतिर्भविष्यति, तेन तत्प्रेषिताहं त्वामाका DIA Gunratasun MS Jun Gun Aara u s!
Page #7
--------------------------------------------------------------------------
________________ सुदर्शन चरित्रं रयितुं समागतास्मि. अतस्त्वमविलंबं तत्र समागच्छ ? ज्वराभिभूतं तं त्वदीयमित्रं च सांत्वय ? तत् मूल श्रुत्वा सरलस्वभावः सुदर्शनः प्राह, अहो, मम मित्रस्य ज्वरातूरस्य विह्वलत्वं मया ज्ञातं नाभूत, सुष्टु // 6 // कृतं स्त्रया यदहं तत्स्वरूपं ज्ञापितः. अथ त्वं याहि ? अहमधुनैव तव पश्चात् सर्वकाकार्य परिहत्यापि समागच्छामि. इत्युक्त्वा तां विसय॑ स निजमित्राचे गंतुमुत्सुकीभूय चलितः. अथ कपिलापि तं सुद र्शनं दृष्ट्वाऽपरमनंगमप्यंगधारिणं मत्वा भृशं कामातुरा निजप्रयासं च सफलं मन्यमाना द्रुतं द्रुतं निज-5 18 गृहे समागत्य शय्यायासनानि प्रगुणीचकार. इतः स सुदर्शनः श्रेष्ठ्यपि निजपरममित्रमिलनायोत्सुकी भृतः सन् तदीयगृहमध्ये प्रविष्टः. यथा यथा स गृहमध्ये प्रविशति, तथा तथा सा गृहद्वाराणि पिधत्तेस्म. है ततो गृहांतः समागतं तं सुदर्शनंप्रति कामाग्नितप्ता सा कपिला कटाक्षशतानि विक्षिपंती, नानाविध. हावभावान् दर्शयंती, परमप्रेमपयःसिक्तेव प्रस्वेदक्लिन्ना. प्रकंपितांगी समन्मनाक्षरं जजल्प, हे स्वामिन् ! | भूरिकालादहं त्वत्संगमं वांछंत्यस्मि, संप्रति मदनतापसंतप्तां मां निजभुजोर्मिभिः संवेष्ट्य प्रेमपयः पूरैयूयं / सिंचत ? इथं कमलकोमला शय्या, त्वदीयसंगमातुरमिदं मे शरीरं, च भोगोपभोगयोग्यं सकलमपि व MASSAGGIARREGLAR TEAC.Gunratnasun M.S. Jun Gun Aaradilist
Page #8
--------------------------------------------------------------------------
________________ मुदर्शन चरित्रं स्तुजातं संप्रति त्वदायत्तमेव विद्यते, अतस्त्वं स्वेच्छया मया सह भोगान् भुक्ष्व ? एवंविधांस्तस्या आ- मूल लापान श्रुत्वा प्रत्युत्पन्नमतिः स सुदर्शनो निजशोलरक्षार्थ, तस्याश्च कामविकारापनयनार्थ जगौ, भोः सु-॥७॥ दरि ! मयि प्रेमरसभरनिर्भरः सर्वोऽपि तेऽभिलाषो मया ज्ञातः. मनसि चापि सुष्टुतया संग्रहीतः परं त्वं मयि रागकरणे नूनं वंचितासि, यतोऽहं तु नपुंसकोऽस्मि, त्वया चेदं मम नपुंसकत्वं कस्याप्यग्रेन वक्तव्यं. एवंविधानि सुदर्शनवचनानि निशम्य सा वीलक्षीभूता, प्रशांतमदनविकारा पश्चात्तापं कुर्वती.तं प्राह. भो सुदर्शन ! अथ त्वयापि मदीयेयं कुचेष्टा कस्याप्यग्रे न वक्तव्या, एवं निजफालच्युता व्याघ्रीव गतानंगविकारा लजया नत्रीभूतानना सा तं सुदर्शनं द्रुतं ततो विससर्ज. सुदर्शनोऽपि कथंचिद् व्याधपाशनिर्मुक्तहरिणवदविलंबेन गतिवेगमादृत्य निजगृहे समाजगाम. ततस्तेनाभिग्रहो जग्रहे, अथ मयव मपरीक्ष्य यथातथा कस्यापि गहे न गंतव्यं. एवं सुदृढमनःपरिणामोऽसौ सुदर्शन श्रेष्ठी निजशीलं रक्षIP यामास. अथान्यदा वसंतर्तुसमयः समाययो. आम्रवृक्षोपरि नवपल्लवोपेतं मंजरीवजं निरीक्ष्योन्मत्तीभूताः कोकिला निजपंचमस्वरशस्त्रविरहिजनानां चेतांसि विदारयामासुः. प्रफुल्लनवमालतीपुष्पपरिमललोलुपा MAC Gunratnasuri M.S. Jun Gun Aaradiad
Page #9
--------------------------------------------------------------------------
________________ RSA सुदर्शन मधुकरा निजगुंजारवर्जनमनांसि मोदयामासुः.अथोद्यानपालनिवेदितां तामुपवनशाभां परिभोक्तुं पृथ्वीपचरित्र तिरपि पौरपरिवारपरिवृतो वनमध्ये यचौ. अभयामहारोड्यपि तया पुरोहितपन्या कपिलया सह याना // 8 // रूढा नपादिपरिवारेण सह तत्रोद्याने गंतं प्रवृत्ता. तदातस्य सदर्शनश्रेष्ठिनःप्रिया मनोरमापि निजषड-3 // 8 // पुत्रपरिवारयुता रथारूढा तस्मिन् वसंतोत्सवे वनंप्रति गमनं चकार. सुदर्शनोऽपि निजपरिजनमित्रादि-15 परिवारयुतोऽश्वारूढस्तत्र चलतिस्म. ततो मार्गे पुत्रगणोपेतां रथारूढां सुदर्शनपत्नी तां मनोरमां निरी-81 क्ष्य कपिलाऽभयां राज्ञीप्रति प्राह, हे सखि ! कस्येयं पत्नी ? कस्य चायं पुत्रपरिवारः? तत् श्रुत्वाऽभयया | प्रोक्तं, अरे! मुग्धे ! किं त्वमेनां ललनां नोपलक्षसि ? इयं हि तव भर्तुः परमसुहृदः सुदर्शनश्रेष्ठिनो मनोरमाभिधा प्रियास्ति, एषः सर्वः पुत्रपरिवारोऽपि तस्यैव विद्यते. तत् श्रुत्वाश्चर्यनिमग्ना कपिला क्षणं / तृष्णीभूयावदत्, सखि ! स सुदर्शनस्तु नपुंसकोऽस्ति, मयेषः पराक्षितोस्ति, इत्युक्त्वा तया स्त्रीस्वभा. वतो गुप्तोऽपि सकलो निजवृत्तांतस्तस्यै स्वप्रियसख्यै अभयायै कथितः. तत् श्रुत्वा सहास्याऽभया दत्त| ताला तामवादत्, अरे ! मुग्धे ! त्वं तेन धृष्टेन वंचिता, अरेरे! हस्तागतोपि स वेहधारी कामदेवस्त्वया | M AC.Gunratnasuri M.S. Jun Gun Aaradt
Page #10
--------------------------------------------------------------------------
________________ मुदर्शन चरित्रं // 9 // भोक्तुमशक्योऽभूत ! नूनं स्त्रीकलाऽनमिज्ञया स्वया जगति स्त्रीजातिलजितेक. पुरुषवशीकरणकलाकौशल्यकलिलाः पाखंडपांडित्यमंडिताः स्त्रियस्तु योगनिष्ठ महामुनिवरमपि चलचितं कर्तुं समर्था भवंति, किं बहुना ? निजकोमलवचोहावभावकटाक्षविक्षेपादिसतसजलप्रवाह: पाषाणमपि सा वाक्यंति, तर्हि सुदर्शन। सदृशंपुरुषस्य तु का वार्ता ? एवं निजसंख्या अभयया व्यंगवचने शमाक्षिप्ता लजिता कपिला तामवदत्, भो सखि ! ययेवं स्वं निजचातुर्यगर्वितासि, तर्हि तेन सुदर्शनेन सह विलासं कुर्वतं निचात्मानं 8 मे दर्शय ? यथाहमपि तव चातुर्य स्त्रोकलापरिपूर्णतां च जानामि. तत् श्रुस्था गर्वारूढयाऽभययापि त-18 प्रतिपन्नं. तत उद्याने वसंतोत्सवं विधाय भूपाद्याः सर्वेऽपि. पोरगणाः सायं नगरमध्ये समाययुः. कपिलापि निजगृहं गता अभया राज्यपि निजावासं प्राप्ता, अथ सुदर्शनेन सह विलासकरणार्थ कपिलाये है | स्वयं प्रतिज्ञात वचः स्मरंती साऽभयाराज्ञी ततः प्रभृति कमप्युचितमक्सरं विलोकयंती चिंतातुरा बभूवः / / | अथैवं तां राज्ञों नित्यं चिंतातुरां वीक्ष्य तस्याः पंडिताभिधया सख्याप्रोक्तं, भो सखि ! सांप्रतं त्वं नित्यं / म्लानानना किं हपसे ? तव चेतसि का चिंता विद्यते ? तत श्रुत्वाऽभयया सकलमपि.निजस्वरूप त DC.Gunratnasuri M.S. Jun Gun Aaradh 1441
Page #11
--------------------------------------------------------------------------
________________ मूल data- चरित्रं PRm सुदर्शन स्य निवेदितं. तन्निशम्म पंडितांवदत्, भो सखि! त्वयेषा प्रतिज्ञा नूनमस्थाने कृता. यतो मेरुशिखरमपि | कदाचिच्चलेत, परं स सुदर्शनश्रेष्ठी तु शोलवतात केनापि चालयितुं न शक्यः, असौ परनारीसहोदरा भृतोऽखंडं निजशीलवतं पालयति. तत् श्रुत्वा अभयावदत्, भो सखि ! केनाप्युपायेन त्वं केवलं तमत्र 10 // 4 मत्वपाश्वे समानय ? पश्चात्सर्वमप्यहं विलोकयिष्यामि तदा पंडितया प्रोक्तं, अथ पर्वदिने केनापि च्छ15/ लेनाहं तमत्र तव पार्श्वे आनयिष्यामि. अथैवं कियदिनानंतरं कौमुदीमहोत्सवः समागतः, तदा राजा | नगरमध्ये पटहवादनपूर्व सांतःपुरः पोरलोकयुतश्चोद्याने गतः. तदा पंडिताप्रेरिताऽभयाराज्ञी शिरोऽर्तिमिषं विधाय निजावासे एवं स्थिता. सुदर्शनश्रेष्ठी च तस्मिन् दिवसे चतुर्दशीपर्व मत्वा नृपादेशं संप्रा. प्य कापि देवकुले कायोत्सर्गध्यानेन तस्थौ. अथ सा विचक्षणा पंडितापि लब्धावसरा राड्याः पूजनार्थ | संप्रभावामेकां यक्षप्रतिमा शिबिकायामारोप्य वाद्यवादनपूर्वकमंतःपुरमध्ये समानयामास, पुनस्तां प्रति| मां बहिरानयत्, पुनश्चीतःपुरे समानयत्. एवं द्वित्रिवारं कुर्वती सा सौविदल्लादीनां विश्वासमुत्पादयामास. प्रांते सा. कायोत्सर्गस्थ तं सुदर्शनश्रेष्ठिनं देवकुलात्समुत्पाव्य, शिविकायां च संस्थाप्य यक्षप्रतिमा . ARK RECAROLISAS LICHIDARES MAC.GunratnasuriM.S.
Page #12
--------------------------------------------------------------------------
________________ // 11 // मुदर्शन मिषेण सेषां सौविदल्लादीनां वचनं विधायांतापरे समानयत्: सुदर्शनस्तु समापतितमुपसर्ग विज्ञाय त- मूल चरित्रापि मीनेन कायोत्सर्गस्थ एवं संस्थौ. लतः सा कामविह्वलाऽभयाराज्ञी तं मन्मनाक्षरर्जजरूप, भो सुद-IP२१॥ म ! अहं त्वदीयरूपगुणादिभिमोंहितास्मि, अतो मयासह भोगान् भुंक्त्वा मदीयं कामावरं सांत्वय? एवं तयाँ भूरिचाटुवचनेहविभावपुरस्सरं प्रार्थ्यमानोऽपिस सुदर्शनः किमपि न जजल्प. एवं बहुविधप्रार्थ नयापि किमप्यजल्पतं तं विलोक्य कोषकगैलनयना सा तं प्राह, रे ! दुष्ट ! भयैवं भूरिशः प्रार्थ्यमानो-/ शापि यदि मम सन्मुखमपि नावलोकयसि, तदाहं नूनं तव प्राणान् गृहीष्यामि. एवं तया भापितोऽपि सदृढतरमनाः साहसमवलंब्य निजशीलरक्षणार्थ न किंचिदप्यवदत्ः अथातीवविलक्षीभूतया कोपाकुलं चित्तया तया पूत्कारः कृतः, भो भो लोकाः ! धावस 1 धावत ? अयं दुष्टः पापात्मा मदीयं शीलं भक्तुमत्रागतोऽस्ति. एवं राया कृतं पूत्कारं निशम्य द्रुतमेव तत्र केचिद्राजपुरुषाः समागताः, तेश्च गृहीला स श्रेष्ठी सुपपाधे समानीतः, कषितं चायं दुष्टो राज्याः शीलभंगार्थ कामविह्वलीभूतो भवतामंतःपुरे प्र-2 विष्टोऽभूत् तत् श्रुत्वाजश्चर्य प्रासो नृपः सुदर्शनमपृच्छत्; भो सुदर्शन ! त्वं किमर्थ कथं च मदीयांत:- 1 SSSSSSS Gunratnasur M.S. Jun Gun Aaradhala
Page #13
--------------------------------------------------------------------------
________________ pree-. r pite --. - . सुदर्शन पुरमध्य प्रविष्टः ? तत् श्रुत्वा सुदर्शनस्तु निजपौषधवतभंगभयान्न किंचिदप्यवदत्. तदा धेन राज्ञा मूल चरित्रं तेभ्यो निजपुरुषेभ्यः समादिष्टं, यदयं परदारलंपटः पापी शूलायामारोप्यतां ? एवं नृपादिष्टास्ते राजपु. // 12 // रुषास्तं सुदर्शनश्रेष्ठिनं पुरमध्ये भ्रामयित्वा शूलारोपणार्थ क्वस्थाने निन्युः. इतो मनोरमा निजभतुर्वि // 12 // डंबनां विज्ञाय स्वचेतसीति व्यचिंतयत्, नूनं यदि सूर्योऽपि कदाचित्पश्चिमायां दिशि समुदयेत्तथापि 18 मम भर्तरि एवंविधो दोषलेशोऽपि न संभवेत्. केनापि पूर्वकृतदुष्कर्मोदयेन कस्यापि मायाजालपतितस्य मदीयभर्तुरयं कलंकः समापतितः संभाव्यते. अतो महासंकटे पतितया मया संप्रति धर्मस्यैव शरणमं गीकर्तव्यं, येनायं विघ्नः स्वयमेव विलीनो भविष्यति, इति ध्यात्वातया कायोत्सर्गः स्वीकृतः, ध्यातं च / / है यदा मदीयभर्तुरयं विघ्नो दूरं यास्यति, तदैव मया कायोत्सर्गः पारयितव्यः. अथ यावत्ते राजपुरुषास्तं सुदर्शनश्रेष्ठिनं शूलायामारोपयितुंप्रवृत्ता स्तावत्तस्याखंडव्रतप्रभावेण संतुष्टा शासनदेवी तां शुलां स्व-11 सिंहासनरूपामेव व्यधात् तदाश्चर्य प्राप्तस्तैर्नुपपुरुषैः स वृत्तांतो राज्ञे ज्ञापितः, तत् श्रुत्वा निजहृदि / चमत्कृतो राजापि तत्रागतः, सर्वे पौराः अपि तत्रागत्य मिलिताः तदा शासनदेव्या प्रकटीभूय तस्या al. - IMEGunratrasuri M.S. Jun Gun Aaradha
Page #14
--------------------------------------------------------------------------
________________ * सुदर्शन चरित्रं // 13 // * // 13 // * * अभयाराड्याः सकलमपि दुश्चेष्टितं सर्वलोकप्तमक्ष राज्ञे प्रकटोकृतं, कथितं चाथ यः कोऽपि शीलधर्मपर- योरेतयोदंपत्योर्विरुद्धं चिंतयिष्यति, तमहं स्वयमेव देहांतशिक्षाप्रापयिष्यामि, इत्युक्त्वा शासनदेवी ति रोभृता. अथ राजा निजापराधं क्षमयित्वा सपौरो महोत्सवेन तं तदीयगेहे प्रापयामास. एवं धर्मप्रभावेण कुशलक्षेमं निजस्वामिनं गृहे समागतं निरीक्ष्य मनोरमयापि कायोत्सर्गः पारितः, ततो राजा तां निजराज्ञीमभयां पंडितां कपिलां चापि स्वदेशान्निष्कासयामास. क्रमातास्त्रयोऽपि मृत्वा दुर्गतिं प्राप्ताः.8 ॐ ततो वैराग्यवासितहृदयः स सुदर्शनः श्रेष्ठी संयममंगीकृत्य तीव्रतपःप्रभावेण प्राप्तकेवलज्ञानः सकलकर्म-16 क्षयं विधाय मुक्तिमगात्. मनोरमापि क्रमाद् गृहीतसंयमा क्षोणसर्वकर्मपुंजा मुक्तिं गता, // इति श्रीसुदर्शनश्रेष्ठि चरित्रं समाप्तं ॥श्रीरस्तु॥ आ चरित्र श्रीशुभशीलगणीजीए रचेला कथाकोष नामना ग्रंथमांथी उद्धरीने तेनी मूलभाषामां बनता प्रयासे सुधारोवधारो करों जामनगरनिवासो पंडित श्रावक ___ हीरालाल हंसराजे स्वपरनाश्रेयनेमाटे पोतानाश्रीजैनभास्करोदयप्रेसमां छापी प्रसिद्ध कर्यु, // समाप्तोऽयं ग्रंथः गुरुश्रीमच्चारित्रविजयसुप्रसादात् // * * 5 SIA Gunratnasur M.S. Jun Gun Aaradh
Page #15
--------------------------------------------------------------------------
________________ yout ইচ্ছাগুষ্টিগুণ ofonthosoppornogorphorbd00xptopnopthoddothdadina // इति श्रीसुदर्शनश्रेष्ठिचरित्रं समाप्तम् // সককককককককককককককককককককককককককককককক QQQ000 ভিত্তিাভিতিগুলি P PAC Gunatnasull MS Jun Gun Aaradhak Trust