________________ सुदर्शन चरित्रं रयितुं समागतास्मि. अतस्त्वमविलंबं तत्र समागच्छ ? ज्वराभिभूतं तं त्वदीयमित्रं च सांत्वय ? तत् मूल श्रुत्वा सरलस्वभावः सुदर्शनः प्राह, अहो, मम मित्रस्य ज्वरातूरस्य विह्वलत्वं मया ज्ञातं नाभूत, सुष्टु // 6 // कृतं स्त्रया यदहं तत्स्वरूपं ज्ञापितः. अथ त्वं याहि ? अहमधुनैव तव पश्चात् सर्वकाकार्य परिहत्यापि समागच्छामि. इत्युक्त्वा तां विसय॑ स निजमित्राचे गंतुमुत्सुकीभूय चलितः. अथ कपिलापि तं सुद र्शनं दृष्ट्वाऽपरमनंगमप्यंगधारिणं मत्वा भृशं कामातुरा निजप्रयासं च सफलं मन्यमाना द्रुतं द्रुतं निज-5 18 गृहे समागत्य शय्यायासनानि प्रगुणीचकार. इतः स सुदर्शनः श्रेष्ठ्यपि निजपरममित्रमिलनायोत्सुकी भृतः सन् तदीयगृहमध्ये प्रविष्टः. यथा यथा स गृहमध्ये प्रविशति, तथा तथा सा गृहद्वाराणि पिधत्तेस्म. है ततो गृहांतः समागतं तं सुदर्शनंप्रति कामाग्नितप्ता सा कपिला कटाक्षशतानि विक्षिपंती, नानाविध. हावभावान् दर्शयंती, परमप्रेमपयःसिक्तेव प्रस्वेदक्लिन्ना. प्रकंपितांगी समन्मनाक्षरं जजल्प, हे स्वामिन् ! | भूरिकालादहं त्वत्संगमं वांछंत्यस्मि, संप्रति मदनतापसंतप्तां मां निजभुजोर्मिभिः संवेष्ट्य प्रेमपयः पूरैयूयं / सिंचत ? इथं कमलकोमला शय्या, त्वदीयसंगमातुरमिदं मे शरीरं, च भोगोपभोगयोग्यं सकलमपि व MASSAGGIARREGLAR TEAC.Gunratnasun M.S. Jun Gun Aaradilist