________________ मुदर्शन चरित्रं स्तुजातं संप्रति त्वदायत्तमेव विद्यते, अतस्त्वं स्वेच्छया मया सह भोगान् भुक्ष्व ? एवंविधांस्तस्या आ- मूल लापान श्रुत्वा प्रत्युत्पन्नमतिः स सुदर्शनो निजशोलरक्षार्थ, तस्याश्च कामविकारापनयनार्थ जगौ, भोः सु-॥७॥ दरि ! मयि प्रेमरसभरनिर्भरः सर्वोऽपि तेऽभिलाषो मया ज्ञातः. मनसि चापि सुष्टुतया संग्रहीतः परं त्वं मयि रागकरणे नूनं वंचितासि, यतोऽहं तु नपुंसकोऽस्मि, त्वया चेदं मम नपुंसकत्वं कस्याप्यग्रेन वक्तव्यं. एवंविधानि सुदर्शनवचनानि निशम्य सा वीलक्षीभूता, प्रशांतमदनविकारा पश्चात्तापं कुर्वती.तं प्राह. भो सुदर्शन ! अथ त्वयापि मदीयेयं कुचेष्टा कस्याप्यग्रे न वक्तव्या, एवं निजफालच्युता व्याघ्रीव गतानंगविकारा लजया नत्रीभूतानना सा तं सुदर्शनं द्रुतं ततो विससर्ज. सुदर्शनोऽपि कथंचिद् व्याधपाशनिर्मुक्तहरिणवदविलंबेन गतिवेगमादृत्य निजगृहे समाजगाम. ततस्तेनाभिग्रहो जग्रहे, अथ मयव मपरीक्ष्य यथातथा कस्यापि गहे न गंतव्यं. एवं सुदृढमनःपरिणामोऽसौ सुदर्शन श्रेष्ठी निजशीलं रक्षIP यामास. अथान्यदा वसंतर्तुसमयः समाययो. आम्रवृक्षोपरि नवपल्लवोपेतं मंजरीवजं निरीक्ष्योन्मत्तीभूताः कोकिला निजपंचमस्वरशस्त्रविरहिजनानां चेतांसि विदारयामासुः. प्रफुल्लनवमालतीपुष्पपरिमललोलुपा MAC Gunratnasuri M.S. Jun Gun Aaradiad