Book Title: Sudarshan Shreshthi Charitra
Author(s): Shubhshil Gani
Publisher: Shravak Hiralal Hansraj
View full book text
________________ pree-. r pite --. - . सुदर्शन पुरमध्य प्रविष्टः ? तत् श्रुत्वा सुदर्शनस्तु निजपौषधवतभंगभयान्न किंचिदप्यवदत्. तदा धेन राज्ञा मूल चरित्रं तेभ्यो निजपुरुषेभ्यः समादिष्टं, यदयं परदारलंपटः पापी शूलायामारोप्यतां ? एवं नृपादिष्टास्ते राजपु. // 12 // रुषास्तं सुदर्शनश्रेष्ठिनं पुरमध्ये भ्रामयित्वा शूलारोपणार्थ क्वस्थाने निन्युः. इतो मनोरमा निजभतुर्वि // 12 // डंबनां विज्ञाय स्वचेतसीति व्यचिंतयत्, नूनं यदि सूर्योऽपि कदाचित्पश्चिमायां दिशि समुदयेत्तथापि 18 मम भर्तरि एवंविधो दोषलेशोऽपि न संभवेत्. केनापि पूर्वकृतदुष्कर्मोदयेन कस्यापि मायाजालपतितस्य मदीयभर्तुरयं कलंकः समापतितः संभाव्यते. अतो महासंकटे पतितया मया संप्रति धर्मस्यैव शरणमं गीकर्तव्यं, येनायं विघ्नः स्वयमेव विलीनो भविष्यति, इति ध्यात्वातया कायोत्सर्गः स्वीकृतः, ध्यातं च / / है यदा मदीयभर्तुरयं विघ्नो दूरं यास्यति, तदैव मया कायोत्सर्गः पारयितव्यः. अथ यावत्ते राजपुरुषास्तं सुदर्शनश्रेष्ठिनं शूलायामारोपयितुंप्रवृत्ता स्तावत्तस्याखंडव्रतप्रभावेण संतुष्टा शासनदेवी तां शुलां स्व-11 सिंहासनरूपामेव व्यधात् तदाश्चर्य प्राप्तस्तैर्नुपपुरुषैः स वृत्तांतो राज्ञे ज्ञापितः, तत् श्रुत्वा निजहृदि / चमत्कृतो राजापि तत्रागतः, सर्वे पौराः अपि तत्रागत्य मिलिताः तदा शासनदेव्या प्रकटीभूय तस्या al. - IMEGunratrasuri M.S. Jun Gun Aaradha

Page Navigation
1 ... 11 12 13 14 15