Book Title: Stotrabhanu
Author(s): Nandanvijay
Publisher: Jain Granth Prakashak Sabha
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
( ३५ )
संस्मारितश्च वरपौर्णिमशीतभास्वान् ॥२॥ विश्वाभिरूपनिचयाभिनतोत्तमाङ्गश्रेणीजिनेन्द्रवरशासनमौलिभान्ती ॥
स्पर्शेन यस्य विमलस्य पदस्य पूता स्तोष्यामि तं प्रतिपतिं किल नेमि सूरिम् ॥३॥ (त्रिभिर्विशेषकम् )
ज्ञातुं कृतीज्य तव किञ्चिदपि स्वरूपं शक्ता न संयमिपते जडबुद्धयस्तु ॥ जानाति रूपमिभबालतरो व्रतिन् किं कण्ठीरवस्य नगभेदकगर्जनस्य ॥४॥ पारं तवासलमते गुणवृन्दसिन्धोयोगीश्वरेण खलु वीतमदेन गम्यम् ॥ निर्बुद्धिरेतुमधिपो दुफलं कुतोऽहं प्राप्नोति किं विमतिवामन उन्नताप्यम् ॥५॥ धीमन्सुने गतधियं तव भक्तिरेव
स्तोतुं प्रयोजयति मां भवरक्षक त्वाम् ॥ प्रावृष्यतीव सुनटन्ति कलापिनो यत् तद्गर्ज्जदम्बुदरवश्रवणैकजन्यम् ॥६॥
अल्पाशयेन तव नाथ मयोच्यमानं स्तोत्रं धरिष्यति हृदि प्रवराशयोऽपि ॥ क्षीराब्धिमौक्तिकमदन्नपि राजहंसः
For Private And Personal Use Only

Page Navigation
1 ... 35 36 37 38 39 40 41 42 43 44 45 46 47 48