Book Title: Sthanangsutram Part 01 Author(s): Abhaydevsuri, Publisher: Agamoday Samiti View full book textPage 4
________________ श्रीस्थानाङ्गसूत्रवृत्तिः फलादि तस्य विद्याक्रियाबलवताऽपि पूर्वपुरुषेण केनापि कुतोऽपि कारणादनुन्मुद्रितस्यात एव च केषाञ्चिदनर्थभीरूणां मनो- १ स्थानारथगोचरातिक्रान्तस्य महानिधानस्येव स्थानाङ्गस्य तथाविधविद्याबलविकलैरपि केवलधार्यप्रधानैः स्वपरोपकारायार्थ-15 ध्ययने विनियोजनाभिलाषिभिरत एव चाविगणितस्वयोग्यतैनिपुणपूर्वपुरुषप्रयोगानुपश्रुत्य किञ्चित्स्वमत्योत्प्रेक्ष्य तथाविधवर्त|मानजनानापृच्छय च तदुपायान् द्यूतादिमहाव्यसनोपेतैरिवास्माभिरुन्मुद्रणमिवानुयोगः प्रारभ्यते इति शास्त्रप्रस्ता द्वाराणि |वना ॥ तस्य चानुयोगस्य फलादिद्वारनिरूपणतः प्रवृत्तिः, यत उक्तम्-"तस्स फैलजोगमगलसमुदायत्था तहेव दारौई। तब्भेयनित्तिक्कमपयोयणाई च वच्चाई ॥१॥"ति, तत्र प्रेक्षावतां प्रवृत्तये फलमस्यावश्यं वाच्यम् , अन्यथा हि निष्प्रयोजनत्वमस्याशङ्कमानाः श्रोतारः कण्टकशाखामईन इव न प्रवर्तेरन्निति, तच्चानन्तरपरम्परभेदाद् द्विधा, तत्रानन्तरमर्थावगमः, तत्पूर्वकानुष्ठानतश्चापवर्गप्राप्तिर्या सा परम्परप्रयोजनमिति ११ तथा योगः-सम्बन्धः, स च यद्युपायोपेयभावलक्षणो यदुतानुयोग उपायोऽर्थावगमादि चोपेयमिति तदा स प्रयोजनाभिधानादेवाभिहित इत्यवसरलक्षणः सम्बन्धोऽस्य वाच्यः, कोऽस्य दाने सम्बन्धोऽवसर इति भावः, योग्यो वा दाने अस्य क इति, तत्र भव्यस्य मोक्षमार्गाभिलाषिणः स्थितगुरूपदेशस्य प्राणिनोऽष्टवर्षप्रमाणप्रव्रज्यापर्यायस्यैव सूत्रतोऽपि स्थानाङ्गं देयमित्ययमवसरः, योग्योऽपि ____१°पहतैरिव० प्र. २ तस्य (अनुयोगस्य ) फलयोगमङ्गलसमुदायास्तथैव द्वाराणि । तद् ( अनुयोगद्वार) भेदनिरुक्तिक्रमप्रयोजनानि च वाच्यानि ॥१॥ (विशेषावश्यकवृत्त्यभिप्रायेण प्रयोजनमिति मिन्नं द्वारं तथा च द्वारप्रयोजनमित्यर्थः) ३ प्रयोजनस्य साधितत्वात्, यदि च न तथा तयमपि साध्य एव, SPRAUSLERAUGHUSHUSHAURI Jain Education International For Personal & Private Use Only www.jainelibrary.orgPage Navigation
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 ... 580